कुलाचला यस्य महीं द्विजेभ्यः प्रयच्छतः सीमदृ1षत्त्वमापुः।
बभूवुरु2त्सर्गजलं समुद्राः स रैणुकेयः श्रियमातनोतु॥ 69 ॥
किं दोर्भ्यां किमु कार्मुकोपनि3षदा 4भर्गप्रसादेन किं किं वेदाधिगमेन भास्वति भृगोर्वंशे च किं जन्मना।
किं वानेन ममाद्भुतेन तपसा5 पीडां कृतान्तोऽपि चेद्विप्राणां कुरुतेऽन्तरित्यनुशयो रामस्य पुष्णातु वः॥ 70 ॥
नाशिष्यः किमभूद्भवः किमभवन्नापुत्रिणी रेणुका नाभूद्विश्वमकार्मुकं किमिति वः प्रीणातु रामत्रपा।
विप्राणां प्रतिमन्दिरं मणिगणोन्मिश्राणि दण्डाहतेनाब्धीनां स मया यमोऽपि महिषेणाम्भांसि नोद्वाहितः॥ 71 ॥
पायाद्वो जमदग्निवंशतिलको वीरव्रतालंकृतो रामो नाम मुनीश्वरो नृपवधे भास्वत्कुठारायुधः।
येनाशेषहता6हिताङ्गरुधिरैः संतर्पिताः पूर्वजा भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तकारी7कृता॥ 72 ॥
द्वारे कल्पतरुं गृहे सुरगवीं चिन्तामणीनङ्गदे पीयूषं सरसीषु विप्रवदने विद्याश्चतस्रो दश।
एवं कर्तुमयं तपस्यति भृगोर्वंशावतंसो मुनिः पायाद्वोऽखिलराजकक्षयकरो भूदेवभूषामणिः॥ 73 ॥
नो सन्ध्या समुपासते यदि तदा लोकापवादाद्भयं सा चेत्स्वीक्रियते भविष्यति तदा 8राजन्यबीजे नतिः।
इत्थं चिन्तयतश्चिरं भृगुपतेर्निश्वासकोष्णीकृतो नेत्रान्तःप्रतिबिम्बशोणसलिलः संध्याञ्जलिः पातु वः॥ 74 ॥
-
यदा ब्राह्मणेभ्यो भूर्दत्ता, तदा तेषां स्वस्वभूमिसीमार्थं कुलपर्वता एवासन्निति भावः. ↩︎
-
यदा याचकेभ्यो दानं दीयते, तदा दानात्प्राग्दातृभिरुत्सर्गजलं दीयते. अतस्तेनैतावद्दानं दत्तं येन समुद्रा उत्सर्गजलतयाभूवन्निति भावः. ↩︎
-
धनुर्वेदविद्याज्ञानरहस्येन. ↩︎
-
यतो महतामनुग्रहस्तदा सफलः स्यात्, यद्युपकारः कस्यचित्कर्तुं शक्येत. परं मया तत्पीडापि निवारिता न भवति, अतः शंभुप्रसादेन किमित्यर्थः. ↩︎
-
यतस्तपसा साऽध्यमपि साध्यते. परं यदि मया तत्कृत्यं नासाधि तदानेन तपसा किमिति भावः. ↩︎
-
शत्रवः. ↩︎
-
ब्राह्मणेभ्यो देयत्वेन विहितेत्यर्थः. ‘ग्रासप्रमाणे भिक्षा स्यादग्रं ग्रासचतुष्टयम्। अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः॥’ इत्युक्तत्वात्. ↩︎
-
सूर्ये. ↩︎