०५ वामनः

अव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता।
कौतुकालोकिनी जाता जाठरीव जगत्त्रयी॥ 60 ॥
अङ्घ्रिदण्डो हरेरूध्वामुत्क्षिप्तो बलिनिग्रहे।1
विधिविष्ट2रपद्मस्य नालदण्डो मुदेऽस्तु नः॥ 61 ॥

खर्वग्रन्थिविमुक्तसंधि विलसद्वक्षःस्फुरत्कौस्तुभं निर्यन्नाभिसरोजकुङ्भलपुटीगम्भीर3सामध्वनि।
पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितं पायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः॥ 62 ॥

हस्ते शस्त्रकिणाङ्कितोऽरुणविभाकि4र्मीरितोरःस्थलो नाभिप्रेङ्ख5दलिर्विलोचनयुगप्रोद्भूतशीतातपः।
बाहूर्मि6श्रितवह्निरेष तदिति व्याक्षिप्य वाक्यं 7कवेस्तारैरध्ययनैर्हरन्बलिमनः पायाज्जगद्वामनः॥ 63 ॥

स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयतां मेदिनी का मात्रा मम विक्रमत्रयपदं दत्तं जलं दीयताम्।
मा देहीत्युशनाब्रवीद्धरिरयं पात्रं किमस्मात्परं चेत्येवं बलिनार्चितो मुखमुखे पायात्स वो वामनः॥ 64 ॥
स्वामी सन्भुवनत्रयस्य विकृतिं नीतोऽसि किं याञ्चया यद्वा विश्वसृजा त्वयैव न कृतं तद्दीयतां ते कुतः।
दानं श्रेष्ठतमाय तुभ्यमतुलं बन्धाय नो मुक्तये विज्ञप्तो बलिना निरुत्तरतया ह्रीतो हरिः पातु वः॥ 65 ॥
ब्रह्माण्डछत्रदण्डः 8शतधृतिभवनाम्भोरुहो नालदण्डः क्षोणीनौकूपदण्डः9 क्षरदमरसरित्पट्टिकाकेतुदण्डः।
ज्योतिश्चक्रा10क्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः श्रेयस्त्रैविक्र11मस्ते वितरतु विबुधद्वेषिणां कालदण्डः॥ 66 ॥

यस्मादाक्रामतो द्यां 1गरुडमणिशिलाकेतुदण्डायमानादाश्च्यो2तन्त्याबभासे सुरसरिदमला वैजयन्तीव3 कान्ता।
भूमिष्ठो यस्तथान्यो भुवनगृहमहास्तम्भशोभां दधानः पातामेतौ 4पयोजोदरललिततलौ पङ्कजाक्षस्य पादौ॥ 67 ॥

कस्त्वं ब्रह्मन्नपूर्वः क्व च तव वसतिर्याखिला ब्रह्मसृष्टिः कस्ते नाथो ह्यनाथः क्व च तव जनको नैव तातं स्मरामि।
किं तेऽभीष्टं ददामि त्रिपदपरिमिता भूमिरल्पं किमेतत्त्रैलोक्यं भावगर्भं बलिमिदमवदद्वामनो वः स पायात्॥ 68 ॥


  1. बन्धने. ↩︎ ↩︎

  2. आसनम्. ↩︎ ↩︎

  3. ब्रह्मणः सामवेदध्वनिः. ↩︎ ↩︎

  4. यतो हरेर्भगवतो हृदये कौस्तुभमणिर्लोहितच्छविरस्ति, अतस्तत्प्रभाभिः कर्बुरितत्वं वक्षःस्थलस्यापीति भावः. ↩︎ ↩︎

  5. यतो हरेर्नाभौ कमलं वर्तते, अतस्तत्र तत्सुरभिगन्धलोलुपतया भ्रमरागमनं घटत एवेति भावः. ↩︎

  6. लहरी. ↩︎

  7. शुक्रस्य. ↩︎

  8. ब्रह्मा. ↩︎

  9. गुणवृक्षः. ↩︎

  10. नाभिक्षेप्यदारुदण्डः. ↩︎

  11. त्रिषु लोकेषु पादन्यासो यस्य तस्य. ↩︎