०४ नृसिंहः

सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये।
नमस्त्रिभुवनेशाय हरये सिंहरूपिणे॥ 41 ॥
शत्रोः प्राणानिलाः पञ्च वयं दश जयोऽत्र कः।
इति कोपादिवाताम्राः पान्तु वो नृहरेर्नखाः॥ 42 ॥
प्रोज्ज्वलज्ज्वलनज्वालाविकटोरुसटाछटः।
श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी॥ 43 ॥
व्याधूतकेसरसटाविकरालवक्त्रं हस्ताग्रविस्फुरितशङ्खगदासिचक्रम्।
आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि॥ 44 ॥
दैत्यास्थिपञ्जरविदारणलब्धरन्ध्ररक्ताम्बुनिर्जरसरिद्धनजातपङ्काः।
बालेन्दुकोटिकुटिलाः शुकचञ्चुभासो रक्षन्तु सिंहवपुषो नखरा हरेर्वः॥ 45 ॥
दिश्यात्सुखं नरहरिर्भुवनैकवीरो यस्याहवे दितिसुतोद्दलनोद्यतस्य।
क्रोधोद्धतं मुखमवेक्षितुमक्षमत्वं जानेऽभवन्निजनखेष्वपि यन्नतास्ते॥ 46 ॥
वपुर्दल1नसंभ्र2मात्स्वनखरं प्रविष्टे रिपौ क्व यात इति विस्मयात्प्रहितलोचनः सर्वतः।
वृथेति करताडनान्निपतितं पुरो दानवं निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरिः॥ 47 ॥

चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते धगद्धगिति मेदसि स्फुटरवोऽस्थिनिष्ठागिति।
पुनातु भवतो हरेरमरवैरिवक्षःस्थलक्वणत्क3रजपञ्जरक्रकचकाषजन्मानलः4॥ 48 ॥

ससत्वरमितस्ततस्तत5विहस्त6हस्ताटवीनिकृत्तसुरशत्रुहृत्क्ष7तजसिक्तवक्षःस्थलः।
स्फुरद्वरगभस्तिभिः 8स्थगितसप्त9सप्तिद्युतिः समस्तनिग10मस्तुतो नृहरिरस्तु नः स्वस्तये॥ 49 ॥

चञ्चच्चण्डनखाग्रभेदवि11गलद्दैत्येन्द्रवक्षःक्षरद्रक्ता12भ्यक्तसुपाटलोद्भटसटासंभ्रान्तभीमाननः।
तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्गखर्वीभवद्दिङ्भातङ्गनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः॥ 50 ॥

दंष्ट्रासंक13टवक्त्रकन्दरललज्जिह्वस्य हव्याशनज्वालाभासुरभूरिकेसरसटाभारस्य दैत्यद्रुहः।
व्यावल्गद्बलवद्धिरण्यकशिपुक्रोड14स्थलास्फालनस्फारप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः॥ 51 ॥

सोमार्धायितनिष्पिधानदशनः संध्यायितान्तर्मुखो बालार्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः।
अन्तर्नादनिरोधपीवरगलत्त्व15क्कूपनिर्यत्तडित्तारस्फारसटावरुद्धगगनः पायान्नृसिंहः स वः॥ 52 ॥

विद्युच्चक्रकरालकेसरसटाभारस्य दैत्यद्रुहः 16शोणन्नेत्रहुताशडम्बरभृतः सिंहाकृतेः शार्ङ्गिणः।
विस्फूर्जद्गलगर्जितर्जितककुम्मातङ्गदर्पोदयाः संरम्भाः सुखयन्तु वः खरनखक्षुण्णद्विषद्वक्षसः॥ 53 ॥

दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि स्फारीभूतकरालकेसरसटासंघातगोराकृतेः।
सक्रोधं च सविस्मयं च सगुरुव्रीडं च सान्तःस्मितं क्रीडाकेसरिणो हरेर्विजयते तत्कालमालोकितम्॥ 54 ॥
किं1 किं सिंहस्ततः किं2 नरसदृशवपुर्देव चित्रं गृहीतो नैतादृक्क्वापि जीवोऽद्भुतमुपनय मे देव संप्राप्त एषः।
चापं चापं न चापीत्यहहहहहहा कर्कशत्वं नखानामित्थं दैत्येन्द्रवक्षः खरनखमुखरैर्जघ्निवान्यः स वोऽव्यात्॥ 55 ॥

भूयः कण्ठावधूतिव्यतिकरतरलोत्तं3सनक्षत्रमालाबालेन्दुक्षुद्रघण्टारणितदशदिशादन्तिचीत्कारकारी।
अव्याद्वो दैत्यराजप्रथमयमपुरीयानघण्टानिनादो नादो दिग्भित्तिभेदप्रसरसरभसः कूटकण्ठीरवस्य॥ 56 ॥

अन्तःक्रोधोज्जि4हानज्वलनभवशिखाकारजिह्वावलीढप्रौढब्रह्माण्डभाण्डः पृथुभुवनगुहागर्भगम्भीरनादः।
दृप्यत्पारीन्द्रमूर्तिर्मुरजिदवतु5 वः सुप्रभामण्डलीभिः कुर्वन्निर्धू6मधूमध्वजनिचि7तमिव व्योम रोमच्छटानाम्॥ 57 ॥

पायान्मायामृगेन्द्रो जगदखिलमसौ यत्तनूदर्षिरर्चिर्ज्वालाजालावलीढं बत भुवि सकलं व्याकुलं किं न भूयात्।
न स्याच्चेदाशु तस्याधिकविकटसटाकोटिभिः पाट्यमानादिन्दोरानन्दकन्दात्तदुपरि तुहिनासारसंदोहवृष्टिः॥ 58 ॥
आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः।
पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर्दृष्टा दृप्तासुरोरस्थलदरणगलद्रक्तरक्ता नखा वः॥ 59 ॥


  1. विदारणम्. ↩︎ ↩︎

  2. भयात्. ↩︎ ↩︎

  3. नखाः. ↩︎ ↩︎

  4. करपत्रकम्. ↩︎ ↩︎

  5. विस्तीर्णौ. ↩︎ ↩︎

  6. व्याकुलौ. ↩︎ ↩︎

  7. रुधिरम्. ↩︎ ↩︎

  8. आच्छादिता. ↩︎

  9. सूर्यः. ↩︎

  10. वेदः. ↩︎

  11. विदारणम्. ↩︎

  12. सिक्ताः. ↩︎

  13. संकीर्णः. ↩︎

  14. उत्सङ्गस्थलम्. ↩︎

  15. रोमकूपाः. ↩︎

  16. रक्तीभवन्. ↩︎