०३ वराहः

नमस्तस्मै वराहाय हेलयोद्धरते महीम्।
खुरमध्यगतो यस्य मेरुः खुरखुरायते॥ 23 ॥
पातु वो मेदिनीदोला बालेन्दुद्युतितस्करी।
दंष्ट्रा महावराहस्य पातालगृहदीपिका॥ 24 ॥
हरेर्लीलावराहस्य दंष्ट्रादण्डः स पातु वः।
हेमाद्रिकलसा यत्र धात्री छत्रश्रियं दधौ॥ 25 ॥
स जयति महावराहो जलनिधिजठरे चिरं निमग्नोऽपि।
येनान्त्रैरिव सह फणिगणैर्बलादुद्धृता धरणी॥ 26 ॥
पातु वः कपटकोलकेशवो1 यस्य निश्वसितमारुतोद्धता।
उच्छ्रितिप्रपतनैरचीक्लृ2पत्केलिक3न्दुकतुलामिला मुहुः॥ 27 ॥

मेरूरुकेसरमुदारदिगन्तपत्त्रमामूललम्बिचलशेषशरीरनालम्।
येनोद्धृतं कुवलयं सलिलात्सलीलमुत्तंसकार्थमिव पातु स वो वराहः॥ 28 ॥
न पङ्कैरालेपं कलयति 4धरित्रीव्ययभयान्न मुस्तामादत्तेऽप्युरगनगरभ्रंशभयतः।
न धत्ते ब्रह्माण्डस्फुटनभयतो घर्घररवं महाक्रोडः पायादिति सकलसंकोचितमुखः॥ 29 ॥

न मृद्गीयान्मृद्वी कथमिव मही पोत्रनिकषैर्मुखाग्निज्वालाभिः कनकगिरिरीयान्न विलयम्।
न शुष्येयुः श्वासैः सलिलनिधयः सप्त च कथं वराहो वः पायादिति विपुलचिन्तापरिकरः॥ 30 ॥
पातु त्रीणि जगन्ति संततमकूपा5रात्समभ्युद्धरन्धात्रीं कोलकलेवरः स भगवान्यस्यैकदंष्ट्राङ्कुरे।
कूर्मः 6कन्दति 7नालति द्विरसनः 8पत्रन्ति दिग्दन्तिनो मेरुः कोशति9 मेदिनी 10जलजति व्योमापि रोलम्बति11॥ 31 ॥

पातु श्रीस्तनपत्रभङ्गिमकरीमुद्राङ्कितोरःस्थलो देवो वः स जगत्पति12र्मधुवधूवक्त्राब्जचन्द्रोदयः।
क्रीडाक्रीडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः॥ 32 ॥

दृप्यद्दैत्यनितम्बिनीजनमनः-संतोषसंकोचनः कुर्याद्विश्वमनश्वरं स भगवान्क्रोडावतारो हरिः।
यद्दंष्ट्राङ्कुरको1टिकोट2रकुटीकोणान्तरस्थेयसी पृथ्वी भात्य3वदातकेतकदलालीनेव भृङ्गाङ्गना॥ 33 ॥

अष्टौ यस्य दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तं केसरजालमर्ककिरणा भृङ्गाः पयोदावली।
नालं शेषमहोरगः प्रविततं वारांनिधेर्लीलया तद्वः पातु समुद्धरन्कु4वलयं क्रोडाकृतिः केशवः॥ 34 ॥

बिभ्राणोऽभिनवेन्दुकोटिकुटिलं दंष्ट्राङ्कुरं लीलया क्रोडाकारधरो हरिः स भगवान्भूयाद्विभूतिप्रदः।
यस्योत्क्षिप्तवतः क्षमाकमलिनीमालम्बमानः क्षणं लोलद्बालमृणालनालतुलनां भेजे भुजङ्गेश्वरः॥ 35 ॥
मुक्तैर्यास्यति कुत्रचिद्वसुमती दंष्ट्राङ्कुरस्थेयसी कुक्षौ क्षोभमवाप्स्यति त्रिभुवनं रुद्धैरमीभिः क्रमात्।
इत्यस्वरूपविकल्पमीलितमतेः कण्ठे लुठन्तो मुहुः क्रोडाकारधरस्य कैटभजितः श्वासानिलाः पान्तु वः॥ 36 ॥
भूयादेष सतां हिताय भगवान्कोलावतारो हरिः सिन्धोः क्लेशमपास्य यस्य दशनप्रान्ते नटन्त्या भुवः।
तारा हारति वारिदस्तिलकति स्वर्वाहिनी माल्यति क्रीडादर्पणति क्षपापतिरहर्देवश्च ताटङ्कति॥ 37 ॥
लीने श्रोत्रैकदेशे नभसि नयनयोस्तेजसि क्वापि नष्टे श्वासग्रासोपभुक्ते मरुति जलनिधौ पादरन्ध्रार्धपीते।
पोत्र5प्रान्तैकरोमान्तरविवरगतां मार्गतश्चक्रपाणेः क्रोडाकारस्य पृथ्वीमकलितविभवं वैभवं वः पुनातु॥ 38 ॥

सिन्धुष्वङ्गावगाहः खुरविवरविशत्तुच्छतोयेषु नाप्तः प्राप्ताः पातालपङ्के न लुठितरुचयः पोत्रमात्रोपयोगात्।
दंष्ट्राविष्टेषु नाप्तः शिखरिषु च पुनः स्कन्दकण्डूविनोदो येनोद्धारे धरित्र्याः स जयति विभुताविघ्नितेच्छो वराहः॥ 39 ॥
क्वेदानीं दर्पितास्ते घनमदमदिरामोदिनो दिग्द्विपेन्द्रा हे मेरो मन्दराद्रे मलय हिमगिरे सादु वः क्ष्माधरत्वम्।
शेष श्लाघ्योऽसि दीर्घैः पृथुभुवनभरोच्छण्डशौण्डैः शिरोभिः शंसन्सोत्प्रासमुच्चैरिति धरणिभृतः पातु युष्मान्वराहः॥ 40 ॥


  1. वराहः. ↩︎ ↩︎

  2. अकरोत्. ↩︎ ↩︎

  3. यथा कन्दुकः क्रीडया शिशुभिरुत्क्षिप्यतेऽपक्षिप्यते च, तथेयं भूरपि श्वासवायुप्रेरितोर्ध्वाधःपतनैः कन्दुकतुलां तुलयतीति भावः. ↩︎ ↩︎

  4. यद्यहं धरित्र्यां सामुद्रे पङ्के लुठिष्यामि तदेयं भूर्मद्वपुष्येव विलयं यास्यतीति विचार्य. ↩︎ ↩︎

  5. समुद्रात्. ↩︎ ↩︎

  6. कन्द इवाचरति. ↩︎

  7. नालमिवाचरति. ↩︎

  8. पत्राणीवाचरति. ↩︎

  9. कोरक इवाचरति. ↩︎

  10. कमल इवाचरति. ↩︎

  11. भ्रमर इवाचरति. ↩︎

  12. यथा चन्द्रोदयेऽब्जानि संकोचमाप्नुवन्ति तथा हरेरुदयान्मधुवधूवक्त्राम्भोरुहाणि निःश्रीकाण्यभवन्निति भावः. ↩︎