निरवधि च निराश्रयं च यस्य स्थितमनिवर्तित1कौतुकप्रपञ्चम्।
प्रथम इह भवान्स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः॥ 16 ॥
भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठकण्डूयनक्षणसुखायितगाढनिद्रः।
सुष्वाप दीर्घतरघर्घरघोरघोषः श्वासाभिभूतजलधिः कमठः स वोऽव्यात्॥ 17 ॥
नमस्कुर्मः कूर्मं नमदमरको2टीरनिकरप्रसर्पन्माणिक्यच्छविमिलित3माञ्जिष्ठवपुषम्।
4जरीजृम्भड्डिम्भ5द्युम6णिरमणीयांशुलहरिपरीरम्भस्फूर्जद्बलभि7दुपलाद्रिप्रतिभटम्॥ 18 ॥
निष्प्रत्यूहमनल्ककल्पचरितस्त्रैलोक्यरक्षागुरुः क्रीडाकूर्मकलेवरः स भगवान्दिश्यादमन्दां मुदम्।
कल्पान्तोदधिमध्यमज्जनवशाद्व्यासर्पतः संलुठत्पृष्ठे यस्य बभूव सैकतकणच्छायं धरित्रीतलम्॥ 19 ॥
पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनैर्निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः।
8यत्संस्कारकलानुवर्तनवशाद्वेलाछलेनाम्भसां यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति॥ 20 ॥
दृग्भ्यां यस्य विलोकनाय जगतो द्रागीषदुत्तोलितग्रीवाग्रोपरि विस्फुरद्ग्रहगणे छत्रायितायां भुवि।
हा धिग्भूः किमभूदभूत्तदितरत्किं चेति पर्याकुलो हन्यादेष हठादघानि कमठाधीशः कठोराणि वः॥ 21 ॥
यो धत्ते9 शेषनागं 10तदनु वसुमतीं स्वर्गपातालयुक्तां युक्तां सर्वैः समुद्रैर्हिमगिरिकनकप्रस्थमुख्यैर्नगेन्द्रैः।
एतद्ब्रह्माण्डमस्यामृतघटसदृशं भाति 11वंशे मुरारेः पायाद्वः कूर्मदेहः प्रकटितमहिमा माधवः कामरूपी॥ 22 ॥