०१ मत्स्यः

मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दावन्तर्लीने जलधिसलिले व्याकुले देवलोके।
मात्स्यं रूपं मुखपुटतटाकृष्टनिर्मुक्तवार्धि श्रीकान्तस्य स्थलजलगतं वेत्यलक्ष्यं पुनातु॥ 5 ॥
वियत्पुच्छा1तुच्छोच्छलितजलगर्भं निधिरपामपांनाथः 2पाथः3पृथुललवदुः4स्थो वियदभूत्।
निधिर्भा5सामौर्वो6 दिनपति7रभूदौर्वदहनश्चलत्काये यस्मिन्स जयति हरिर्मीनवपुषा॥ 6 ॥

जीयासुः 8शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोट9नादुद्यन्तः10 शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः।
यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटालं11 वपुः पाना12ध्मानवशा13रोचकरुजां चक्रे चिरायास्पदम्14॥ 7 ॥

दिश्याद्वः सखुलाकृतिः स भगवान्नैःश्रेयसीं संपदं यस्य स्फूर्जदतुच्छपुच्छशिखरप्रेङ्खोलनक्रीडनैः15
विष्वग्वार्धिसमुच्छलज्जलभरैर्मन्दाकिनीसंगतैर्गङ्गासागरसंगमप्रणयिनी जाता विहायः16स्थली॥ 8 ॥

मायामीनतनोस्तनोतु भवतां पुण्यानि पङ्कस्थितिः पुच्छाच्छोट17समुच्छलज्जलगुरुप्राग्भाररिक्तोदधेः।
पाताला18वटमध्यसंकटतया19 पर्याप्तकष्टस्थितेर्वेदोद्धारपरायणस्य सततं नारायणस्य प्रभोः॥ 9 ॥

जृम्भाविस्तृतवक्त्रपङ्कजविधेर्हृत्वा श्रुतीः20 सागरे लीनं त्रस्तसमस्तनक्रनिकरं शङ्खं जघानाजिरे21
पुच्छोत्क्षिप्तजलोत्करैः प्रतिदिशं 22संतर्प्य यो वै धरां पायाद्वः स मृणालकोमलतनुर्मीनाभिधानो हरिः॥ 10 ॥

हंहो मीनतनो हरे किमुदधे किं वेपसे शैत्यतः स्विन्नः किं वडवानलात्पुलकितः कस्मात्स्वभावादहम्।
इत्थं सागरकन्यकामुखशशिव्यालोकनेनाधिकप्रोद्यत्कामजचिह्ननिह्नुतिपरः23 शौरिः शिवायास्तु वः॥ 11 ॥

पुच्छं चेदहमुन्नयाम्यनवधिस्तुच्छो भवेदम्बुधिः क्रीडां चेत्कलये मनागपि जले पीडा परं यादसाम्।
निस्पन्दो भृशमामृशन्निति भरब्रह्माण्डभाण्डक्षयक्षोभाकुञ्चितवेष एष भगवान्प्रीणातु मीनाकृतिः॥ 12 ॥
चन्द्रादित्यो1रुनेत्रः 2कमलभवभवस्फारपृष्ठप्रतिष्ठो भास्वत्कालाग्निजिह्वः पृथुलगलगुहादृष्टनिःशेषविश्वः।
अद्भिः पुच्छोत्थिताभिश्चकितसुरवधूनेत्रसंसूचिताभिर्मत्स्य3श्छिन्नाब्धिवेलं गगनतलमलं क्षालयन्वः पुनातु॥ 13 ॥

यं दृष्ट्वा मीनरूपं स्फुरदनलशिखायुक्तसंरक्तनेत्रं लोलद्विस्तीर्णकर्णक्षुभितजलनिधिं नीलजीमूतवर्णम्।
स्वासोच्छ्वासानिलौघैः प्रचलितगगनं पीतवारिं मुरारिं दि4ङ्मूढोऽभूत्स शङ्खः स भवतु भवतां भूतये मीनरूपः॥ 14 ॥

दिङ्मूढं तं सुरारिं किल शितदशनैः5 पीड्यमानं रटन्तं हृत्वा तीरे पयोधेः करतलकलितं पूरयामास6 शङ्खम्।
नादेनाक्षोभ्य विश्वं प्रमुदितविबुधं त्रस्तदैत्यं स देवैर्दत्तार्घः पद्मयोनेः प्रहसितवदनः पातु वो दत्तवेदः॥ 15 ॥


  1. बहु. ↩︎ ↩︎

  2. उदकम्. ↩︎ ↩︎

  3. विपुलः. ↩︎ ↩︎

  4. दरिद्रः. ↩︎ ↩︎

  5. सूर्यः. ↩︎ ↩︎

  6. वडवानलः. यदा पानीयं मीनाकृत्या भगवता स्वपुच्छेनोच्छलितम्, तदा सर्वमपि सामुद्रं जलं वियति गतम्, तत्र च रविर्वर्तत एव. स वडवानलाकृत्यादृश्यत इत्यर्थः. ↩︎ ↩︎

  7. समुद्रे पानीयाभावात्समुद्रस्याकाशकल्पना. तत्र च वाडवाग्नेः सूर्योपमेति भावः. ↩︎

  8. मत्स्याकृतेः. ↩︎

  9. इतस्तत आलोडनम्. ↩︎

  10. ऊर्ध्वं गच्छतः. ↩︎

  11. तेजोव्याप्तम्. ↩︎

  12. अग्निसंयोगाभावः. ↩︎

  13. अरुचिरोगाणाम्. ↩︎

  14. यो निदाघज्वरादिरुगाक्रान्तो बहुपानीयं पिबति, तस्य पश्चात्पानीयस्यारुचिर्जायते. तथैतस्य वाडवाग्नेरपीति भावः. ↩︎

  15. दोला. ↩︎

  16. आकाशस्थली. यतः सागरजलं मत्स्यपुच्छेनोच्छालितं सुरनद्याः सङ्गमवाप ततो गङ्गासागरसंगमतीर्थं नभस्यपि जज्ञे इति भावः. ↩︎

  17. उल्लोलनम्. ↩︎

  18. भूरन्ध्रम्. ↩︎

  19. संकीर्णतया. ↩︎

  20. वेदान्. ↩︎

  21. रणाङ्गणे. ↩︎

  22. भूत्वा. ↩︎

  23. अपलपनम्. ↩︎