तं वन्दे पद्मसद्मानमुपवीतच्छटाछलात्।
गङ्गा स्रोतस्त्रयेणैव यं सदैव निषेवते॥ 1 ॥
कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम्।
नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम्॥ 2 ॥
कृतकान्तकेलिकुतुकश्रीशीतश्वाससेकनिद्राणः।
घोरितविततालिरुतो नाभिसरोजे विधिर्जयति॥ 3 ॥
अविरताम्बुजसंगतिसंगलद्बहलकेसरसंवलितेव वः।
ललितवस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोऽवतात्॥ 4 ॥