+10 लक्ष्मीः

जयन्ति जगतां मातुस्तनकुङ्कुमबिन्दवः।
मुकुन्दाश्लेषसंक्रान्तकौस्तुभश्रीविडम्बिनः॥ 1 ॥
पायात्पयोधिदुहितुः कपोलामलचन्द्रमाः।
यत्र संक्रान्तबिम्बेन हरिणा 1हरिणायितम्॥ 2 ॥

देवेऽर्पितवरणस्रजि बहुमाये वहति कैटभीरूपम्।
जयति सुरासुरहसिता लज्जाजिह्मेक्षणा लक्ष्मीः॥ 3 ॥
तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति।
फणशतपीतश्वासो रागान्धायाः श्रियः केलिः॥ 4 ॥
स्मेराननेन हरिणा सस्पृहमाकारवेदिनाकलितम्।
जयति पुरुषायितायाः कमलायाः कैटभीध्यानम्॥ 5 ॥
कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः।
नुतपदकमला कमला करधृतकमला करोतु मे कमलम्॥ 6 ॥
किञ्जल्कराजिरिव नीलसरोजलग्ना लेखेव काञ्चनमयी निकषोपलस्था।
सौदामनी जलदमण्डलगामिनीव पायादुरःस्थलगता कमला मुरारेः॥ 7 ॥
दन्तैः कोरकिता स्मितैर्विकसिता भ्रूविभ्रमैः पत्त्रिता दोर्भ्यां पल्लविता नखैः कुसुमिति लीलाभिरुद्वेलिता।
उत्तुङ्गस्तनमण्डलेन फलिता भक्ताभिलाषे हिता काचित्कल्पलता सुरासुरनुता पायात्सुधाब्धेः सुता॥ 8 ॥
उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणेरन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति।
लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः पश्यन्ती मुदिता मुदेऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे॥ 9 ॥
आख्याते हसितं पितामह इति त्रस्तं कपालीति च व्यावृत्तं गुरुरित्ययं दहन इत्याविष्कृता भीरुता।
पौलोमीपतिरित्यसूयितमथ व्रीडाविनम्रश्रिया पायाद्वः पुरुषोत्तमोऽयमिति यो न्यस्तः स पुष्पाञ्जलिः॥ 10 ॥
क्रीडाभिन्नहरिण्यशुक्तिकुहरे रक्तात्मनावस्थितान्हारं हारमुदारकुङ्कुमरसानव्याजभव्यान्नखैः।
वीरश्रीकुचकुम्भसीम्नि लिखतो वीरस्य पत्त्रावलीस्तत्कालोचितभावबन्धमधुरं मन्दस्मितं पातु वः॥ 11 ॥
पद्मायाः स्तनहेमसद्मनि मणिश्रेणीसमाकर्षके किंचित्कञ्चुकसंधिसंनिधिगते शौरेः करे तस्करे।
सद्यो जागृहि जागृहीति वलयध्वानैर्ध्रुवं गर्जता कामेन प्रतिबोधिताः प्रहरिका रोमाङ्कुराः पान्तु वः॥ 12 ॥
यादृहग्जानासि जाम्बूनदगिरिशिखरे कान्तिरिन्दोः कलानामित्यौत्सुक्येन पत्यौ स्मितमधुरमुखाम्भोरुहं भाषमाणे।
लीलादोलायमानश्रुतिकमलमिलद्भृङ्गसंगीतसाक्षी पायादम्भोधिजायाः कुसुमशरकलानाट्यनान्दीनकारः॥ 13 ॥
उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु॥ 14 ॥


  1. हरिण इवाचरितम्. ↩︎