वत्से मा गा विषादं1 श्व2सन3मुरुजवं संत्यजोर्ध्वप्रवृत्तं 4कम्पः को वा 5गुरुस्ते किमिह 6बलभिदा जृम्भितेनात्र7 याहि। प्रत्या8ख्यानं सुराणामिति 9भयशमनच्छद्मना कारयित्वा यस्मै लक्ष्मीमदाद्वः स दहतु दुरितं मन्थमुग्धः पयोधिः॥ 15 ॥ खेदम्; [पक्षे] हरम्. ↩︎ श्वासम्; [पक्षे] पवनम्. ↩︎ महावेगम्. ↩︎ कं जलं पातीति तथा वरुणः; [पक्षे] कम्पः. ↩︎ महान्; [पक्षे] बृहस्पतिः. ↩︎ बलं प्रसिद्धं तद्भिदा नाशकेन; [पक्षे] बलाख्यदैत्यनाशकेनेन्द्रेण. ↩︎ श्रीकृष्णसंनिधौ. ↩︎ वर्जनम्. ↩︎ भयनिवारणव्याजेन. ↩︎