दृष्टस्य यस्य हरिणा रणमूर्ध्नि मूर्तिरुद्भूतदुःसहमहःप्रसरा समन्तात्।
तल्लोचनस्थितरविप्रतिबिम्बगर्भेवाभाति चक्रमरिचक्रनुदेऽस्तु तद्वः॥ 46 ॥
उद्वृत्तदैत्यपृतनापतिकण्ठपीठच्छेदोच्छलद्बहलशोणितशोणधारम्।
चक्रं क्रियादभिमतानि हरेरुदारदिग्दाहदारुणभःश्रियमुद्वहद्वः॥ 47 ॥