भिन्दन्नरातिहृदयानि हरेः पुनातु निःश्वासवातमुखरीकृतकोटरो वः।
संक्रान्तकुक्षिकुहरास्पदसप्तसिन्धुसंघट्टघोरतघोष इवाशु शङ्खः॥ 44 ॥
पायात्स वः कुमुदकुन्दमृणालगौरः शङ्खो हरेः करतलाम्बरपूर्णचन्द्रः।
नादेन यस्य सुरशत्रुविलासिनीनां काञ्च्यो भवन्ति शिथिला जघनस्थलीषु॥ 45 ॥