+09 विष्णुः

नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे।
विष्णवेऽपारसंसारपारोत्तरणसेतवे॥ 1 ॥
आदिमध्यान्तरहितं 1दशाहीनं पुरातनम्।
अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिम्॥ 2 ॥

लक्ष्मीकपोलसंक्रान्तकान्तपत्त्रलतोज्ज्वलाः।
दोर्द्रुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः॥ 3 ॥
जयति स भगवान्कृष्णः शेते यः शेषभोगशय्यायाम्।
मध्ये पयः पयोधेरपर इवाम्भोनिधिः कृष्णः॥ 4 ॥
अतिविपुलं कुचयुगलं रहसि करैरामृशन्मुहुर्लक्ष्म्याः।
तदपहृतं निजहृदयं जयति हरिर्मृगयमाण इव॥ 5 ॥
जयति स नाभिर्जगतां स्वनाभिरन्ध्रोद्भवज्जगद्बीजः।
दामोदरो निजोदरगह्वरनिर्विष्टजगदण्डः॥ 6 ॥
2श्रीकरपि3हितं चक्षुः सुखयतु वः पुण्डरीकनयनस्य।
जघनमिवेक्षितुमा4गतमब्जनिभं नाभिसु5षिरेण॥ 7 ॥

श्यामं श्रीकुचकुङ्कुमपिञ्जरितमुरो6 मुरद्विषो जयति।
दिनमुखनभ7 इव कौस्तु8भविभाकरो यद्विभूषयति॥ 8 ॥

प्रतिबिम्बितप्रियातनु सकौस्तुभं जयति मधुभिदो वक्षः।
पुरुषायितमभ्यस्यति9 लक्ष्मीर्यद्वीक्ष्य मुकु10रमिव॥ 9 ॥

केलिचलाङ्गुलिल11म्भितलक्ष्मीनाभिर्मुरद्विषश्चरणः।
स जयति येन कृता श्रीरनुरूपा1 पद्मनाभस्य॥ 10 ॥

रोमावली मुरारेः श्रीवत्सनिवेशिताग्रभागा वः।
उन्नालनाभिन12लिनच्छायेवोत्ता13पमपहरतु॥ 11 ॥

कमलाकुचकनकाचलजलधरमाभीरसुन्दरीमदनम्।
अधिततशेषफणावलि(सु)कमलवनभृङ्गमच्युतं वन्दे॥ 12 ॥
जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम्।
अम्बुधिमथनक्लेशं कलयन्विफलं च सफलं च॥ 13 ॥
श्रीधाम्नि दुग्धोदधिपुण्डरीके यश्च14ञ्चरीकद्युतिमातनोति।
नीलोत्पलश्यामलदेहकान्तिः सवोऽस्तु भूत्यै भगवान्मुकुन्दः॥ 14 ॥

वक्षःस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्गरुडध्वजस्य।
श्रियोऽङ्गरागेण विभाव्यते या सौभाग्यहेम्नः 15कषपट्टिकेव॥ 15 ॥

वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दबिन्दुः।
तवारविन्दाक्ष पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत्॥ 16 ॥
जयत्युपेन्द्रः स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्यया।
दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवास्रपाटलम्॥ 17 ॥
पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो मधुसूदनस्य।
व्यक्तानुरागमिव खे2लदनङ्गखेदस्वेदाम्बुपूरमनुपूरयतु प्रियं वः॥ 18 ॥

श्रेयः सदा दिशतु सालसपक्ष्मपाते निद्रायिते अपि दृशौ भृशमुन्नमय्य।
संवाह्यमानचरणाम्बुजजातहर्षो लक्ष्मीमुखेक्षणपरः परमेश्वरो वः॥ 19 ॥
सकलभुवनबन्धोर्वैरमिन्दोः सरोजैरनुचितमिति मत्वा यः स्वपादारविन्दम्।
घटयितुमिव मायी योजयत्याननेन्दौ वटदलपुटशायी मङ्गलं वः कृषीष्ट॥ 20 ॥
कचकुचचुबुकाग्रे पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसंगमेऽनङ्गधाम्नि।
ग्रथितनिबिडनीवीबन्धनिर्मोचनार्थं चतुरधिककराशः पातु वश्चक्रपाणिः॥ 21 ॥
विरमति महाकल्पे नाभीपथैकनिकेतनस्त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणमात्मभूः।
किमधिकरणा कीदृक्कस्य व्यवस्थिरित्यसावुदरमविशद्द्रष्टुं तस्मै जगन्निधये नमः॥ 22 ॥
लक्ष्मीपाणिद्वयविरचितं मूलमूर्धश्रुतीनां व्यक्तं वन्दे चरणकमलद्वन्द्वमाद्यस्य पुंसः।
यत्रैकस्य व्यधित बलिना पाद्यतोयैर्वितीर्णैरार्द्रस्यैव प्रणतितरलः क्षालनं पद्मयोनिः॥ 23 ॥
अनादृतचमूपतिप्रहितहस्तमस्वीकृतप्रणीतमणिपादुकं किमिति विस्मितान्तःपुरम्।
अवाहनपरिष्क्रियं पतगराजमारोहतः करिप्रवरबृंहिते भगवतस्त्वरायै नमः॥ 24 ॥
दृक्पातः 3कमलासनेऽस्तु भवतो ज्ञानं मनाङ्भारुते4 श्रीकण्ठोऽयमितः5 सुरानिति नतांस्तार्क्ष्येण विज्ञापितः।
प्रेयस्याः क्व तदासनं क्व च रुतं कण्ठः क्व चेत्युल्लसल्लक्ष्म्यावासितमानसो विजयते सुप्तप्रबुद्धो हरिः॥ 25 ॥

निर्मग्नेन मयाम्भसि स्मरभरादालिः6 समालिङ्गिता केनालीकमिदं7 तवाद्य कथितं राधे मुधा 8ताम्यसि।
इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा वचः शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः॥ 26 ॥

यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः॥ 27 ॥
येनोत्थाप्य समूलमन्दरगिरिश्छत्रीकृतो गोकुले राहुर्येन महाबलः सुररिपुः कार्यादशेषीकृतः।
कृत्वा त्रीणि पदानि येन वसुधा बद्धो बलिर्लीलया सोऽयं पातु युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः॥ 28 ॥
मुग्धे मुञ्च विषादमत्र9 बल2भित्कम्पो 3गुरुस्त्यज्यतां सद्भावं4 भज पुण्ड5रीकनयने मान्यानिमान्मानय।
इत्थं शिक्षयतः स्वयं वरिविधौ धन्वन्तरेर्वाक्छलादन्यत्र प्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः॥ 29 ॥

नाभीपद्मवसच्चतुर्मुखमुखोद्गीतस्तवाकर्णनप्रोन्मीलत्कमनीयलोचनकलाखेलन्मुखेन्दुद्युतिः।
सक्रोधं मधुकैटभौ सकरुणस्नेहं सुतामम्बुधेः सोत्प्रासप्रणयं सरोजवसतिं पश्यन्हरिः पातु वः॥ 30 ॥
निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने।
याभ्यामर्धविबोधमुग्धमधुरश्रीरर्धनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः 6कम्बोः सपत्नीकृतः॥ 31 ॥

7भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतै8र्नीतेहितप्राप्तये।
लावण्यैकमहानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः॥ 32 ॥

चत्वारः प्रथयन्तु विद्रुमलतारक्ताङ्गुलिश्रेणयः श्रेयः शोणसरोजकोरकरुचस्ते शार्ङ्गिणः पाणयः।
भालेष्वब्जभुवो लिखन्ति युगपद्ये पुण्यवर्णावलीः कस्तूरीमकरीः पयोधरयुगे गण्डद्वये च श्रियः॥ 33 ॥
आकल्पं मुरजिन्मुखेन्दुमधुरोन्मीलन्मरुन्माधुरीधीरोदात्तमनोहरः सुखयतु त्वां पाञ्चजन्यध्वनिः।
लीलालङ्घितमेघनादविभवो यः कुम्भकर्णव्यथादायी दानवदन्तिनां दशमुखं दिक्चक्रमाक्रामति॥ 34 ॥
भ्राम्यन्मन्दरकंदरोदरदरीव्यावर्तिभिर्वारिधेः कल्लोलैरलमाकुलं 9कलयतो लक्ष्म्या मुखाम्भोरुहम्।
औत्सुक्यात्तरलाः स्मराद्विकसिता 10भीत्या समाकुञ्चिताः क्रोधेन ज्वलिता मुदा मुकुलिताः शौरेर्दृशः पान्तु वः॥ 35 ॥

पर्यङ्कीकृतनागनायकफणाश्रेणीमणीनां गणे 11संक्रान्तप्रतिबिम्बसंवलनया बिभ्रद्वपुर्विक्रियाम्।
पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षुः शतैः 1कायव्यूहमिवाचरन्नुपचिताकूतो12 हरिः पातु वः॥ 36 ॥

मन्थक्ष्माधरघूर्णितार्णवपयः पूरान्तरालोल्लसल्लक्ष्मीकन्दलकोमलाङ्गदलनप्रादुर्भवत्संभ्रमाः।
हर्षोत्कण्टकितत्वचो मधुरिपोर्देवासुराकर्षणव्यापारोपरमाय पान्तु जगतीमाबद्धवीप्सा गिरः॥ 37 ॥
चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय भो भो नन्दक जीव पन्नगरिपो किं नाथ भिन्नो मया।
को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे केनास्त्रेण नखैरिति प्रवदतो विष्णोर्मुखं पातु वः॥ 38 ॥
प्रत्यग्रो2न्मेषजिह्मा3 क्षणमनभिमुखी 4रत्नदीपप्रभाणामात्मव्यापारगुर्वी जनितजललवा जृम्भितैः साङ्गभङ्गैः।
5नागाङ्कं भोक्तुमिच्छोः शयनमुरु6 फणाच7क्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टि8राकेकरा वः॥ 39 ॥

श्रीराजीवाक्षश्रवक्षःस्थलनिलयरमाहस्तवास्तव्यलोलल्लीलाब्जान्निःसरन्ती मधुरमधुझरी नाभिपद्मे मुरारेः।
9अस्तोकं लोकमात्रा द्वियु10गमुखशिशोराननेष्वर्प्यमाणं शङ्खप्रान्तेन दिव्यं पय इति विबुधैः शङ्क्यमाना पुनातु॥ 40 ॥

किंचिन्निर्मुच्यमाने गगन इव मुखे शाठ्यनिद्रापयोदैर्न्यक्कुर्वाणे स्वभासा फणिपतिशिरसां रत्नदीपांशुजालम्।
पायास्तां वो मुरारेः शशितपनमये लोचने यद्विभासा लक्ष्म्या हस्तस्थमर्धं विकसति कमलस्यार्धमभ्येति निद्राम्॥ 41 ॥
एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः श्यामे चक्षुस्तवास्मिन्वपुषि निविशते नाल्पपुण्यस्य पुंसः।
कस्यान्यत्रामृतेऽस्मिन्नतिरतिविपुला दृष्टिरेवामृतं ते दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोऽवताद्वः॥ 42 ॥
यस्योद्यद्बाणबाहुद्रुमगहनवनच्छेदगोष्ठीकुठारं चक्रं निष्क्रान्ततीव्रानलबहलकणाकीर्णधारं विचिन्त्य। जातग्रासावसायो दिवसकृतिलसन्मांसलांशुप्रवाहे मुह्यत्यद्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः॥ 43 ॥


  1. वस्त्रस्य प्रान्तभागस्थाः सूत्रवर्तिकाः. ↩︎ ↩︎ ↩︎

  2. लक्ष्मीः. ↩︎ ↩︎ ↩︎ ↩︎

  3. रतरीतिवसनविहीनतया लज्जावशादिति भावः. ↩︎ ↩︎ ↩︎ ↩︎

  4. पिहितेऽपि चक्षुर्गोलकेऽन्यमार्गेण पुण्डरीकनयनमुत्पादयित्वा जघनविलोकनं कृतमित्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎

  5. रन्ध्रम्. ↩︎ ↩︎ ↩︎ ↩︎

  6. रक्तीकृतम्. दृढालिङ्गनादिति भावः. ↩︎ ↩︎ ↩︎ ↩︎

  7. प्रातःकालीननभसः स्वतो नीलिमत्वात्. ↩︎ ↩︎ ↩︎ ↩︎

  8. कौस्तुभमणिरेव सूर्यो यस्मिन्. ↩︎ ↩︎ ↩︎ ↩︎

  9. विपरीतरतम्. ↩︎ ↩︎ ↩︎ ↩︎

  10. दर्पणम्. ↩︎ ↩︎ ↩︎

  11. स्पृष्टः. ↩︎ ↩︎

  12. रोमावल्यां नालच्छायोत्प्रेक्षा. श्रीवत्से च नलिनच्छायोत्प्रेक्षा. ↩︎ ↩︎

  13. महासंतापम्. ↩︎

  14. भृङ्गः. ↩︎

  15. निकषग्रावा. ↩︎