07 हरिहरौ

जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ।
कामारिं कामतातं वा कंचिद्देवं भजामहे॥ 1 ॥
गाङ्गयामुनयोगेन तुल्यं हारिहरं वपुः।
पातु नाभिगतं पद्मं यस्य तन्मध्यगं यथा॥ 2 ॥
1अबलाढ्यविग्रहश्री2रमर्त्यनति3रक्षमालयोपेतः।
पञ्च4क्रमोदितमुखः पायात्परमेश्वरो5 मुहुरनादिः6॥ 3 ॥

पन्नगधारिकराग्रो गङ्गोमालक्षितोऽङ्गदोऽग्रभुजः।
शशिखण्डशेखर उमापरिग्रहो मुहुरनादिरवतु त्वाम्॥ 4 ॥
7गवीशपत्रो 8नगजार्तिहारी 9कुमारतातः 10शशिखण्डमौलिः।
11 लङ्केशसंपूजितपादपद्मः पायादनादिः12 परमेश्वरो13 वः॥ 5 ॥

स्फटिकमरकतश्रीहारिणोः प्रीतियोगात्तदवतु वपुरेकं कामकंसद्विषोर्वः।
भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या सदृशमहसि कण्ठे यत्र सीमाविवादः॥ 6 ॥
संप्राप्तं 14मकरध्वजेन 15मथनं त्वत्तो मदर्थे पुरा तद्युक्तं 16बहुमार्गगां मम पुरो निर्लज्ज वोढुस्तव।
तामेवानुनयस्व-भावकुटिलां हे 17कृष्ण कण्ठ-ग्रहं मुञ्चेत्याह रुषा यमद्रितनया लक्ष्मीश्च पायात्स वः॥ 7 ॥

यौ तौ शङ्खकपालभूषितकरौ मालास्थिमालाधरौ देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ।
द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ पापं वो हरतां सदा हरिहरौ श्रीवत्सगङ्गाधरौः॥ 8 ॥
लोले ब्रूहि कपालिकामिति पिता कस्ते पतिः पाथसां कः प्रत्येति जलादपत्यजननं प्रत्येति यः 18प्रस्तरात्।
इत्थं पर्वतसिन्धुराजसुतयोराकर्ण्य वाक्चातुरीं संस्मेरस्य हरेर्हरस्य च मुदो निघ्नन्तु विघ्नं तु वः॥ 9 ॥

यस्मादासीत्कुमारः कुवलयदलवल्लीलयोवाह गङ्गां वामा1 यस्याङ्गसङ्गा पिहितजनचयो यो गवीशध्वजोऽपि।
लङ्केशाद्येकनाथो 2हिमकररुचिभृद्भूविशेषाश्रमोऽसौ वर्णस्याद्यस्य लोपादपहरतु हरिः पातकं वः स्मरारिः॥ 10 ॥


  1. पार्वत्यर्धाङ्गीकरणात्; [पक्षे] बलाढ्यो बलिष्ठः. ↩︎ ↩︎

  2. देवसंपूजितः; [पक्षे] मृत्युलोकसंपूजितः. तस्य रक्षणात्. ↩︎ ↩︎

  3. अक्षमाला जपमाला; [पक्षे] क्षमालयं पृथ्वी. ↩︎

  4. पञ्चाननः; [पक्षे] चक्रेण मोदितं मुखं यस्य सः. ↩︎

  5. परमेश्वरः शिवः रमेश्वरो विष्णुः. ↩︎

  6. न विद्यते आदिर्यस्य सः; [पक्षे] आद्यवर्णरहितः. ↩︎

  7. गवीशो वृषो वाहनं यस्य; (पक्षे आद्याक्षरस्य लोपात् वीशो गरुडो वाहनं यस्य.) ↩︎

  8. पार्वतीदुःखनाशकः [पक्षे] गजेन्द्रपीडाहारकः. ↩︎

  9. कार्तिकेयपिता; [पक्षे] मदनपिता. ↩︎

  10. चन्द्रः शिरसि यस्य; [पक्षे] मयूरपिच्छानि शिरसि यस्य. ↩︎

  11. रावणपूजितचरणकमलः; [पक्षे] को ब्रह्मा, ईशः शिवः, एताभ्यां पूजितपादपद्मः. ↩︎

  12. न विद्यत आदिर्यस्य सः; [पक्षे] आद्याक्षरशून्यः. ↩︎

  13. शिवः; [पक्षे] विष्णुः. ↩︎

  14. शिवपक्षे मदनेन; विष्णुपक्षे समुद्रेण. ↩︎

  15. विनाशः; [पक्षे] विलोडनम्. ↩︎

  16. नदीम्. गङ्गामित्यर्थः; [पक्षे] वेश्याम्. कंसस्य कुब्जां दासीमित्यर्थः. ↩︎

  17. कृष्णकण्ठ नीलकण्ठ ग्रहं निर्बन्धं मुञ्च; [पक्षे] कृष्ण कण्ठग्रहं मत्कण्ठग्रहं मुञ्च. ↩︎

  18. पाषाणात्. पार्वत्याः पर्वतगर्भसंजननत्वात्. ↩︎