शैलराजतनयास्तनयुग्मव्यापृतास्ययुगलस्य गुहस्य।
शेषवक्त्रकमलानि मलं वो दुग्धपानविधुराणि हरन्तु॥ 1 ॥
विकसदमरनारीनेत्रनीलाब्जखण्डान्यधिवसति सदा यः संयमाधः कृतानि।
न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः॥ 2 ॥
अर्चिष्मन्ति विदार्य वक्त्रकुहराण्यासृक्कितो वासुकेरङ्गुल्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान्।
एकं त्रीणि च सप्त पञ्च षडिति प्रध्वस्तसंख्याक्रमा वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णन्तु वः॥ 3 ॥