05 पार्वती

हरकण्ठग्रहानन्दमीलिताक्षीं नमाम्युमाम्।
कालकूटविषस्पर्शजातमूर्छागमामिव॥ 1 ॥
1पार्वतीमोषधीमेका2मपर्णां मृगयामहे।
3शूली हालाहलं पीत्वा यया 4मृत्युंजयोऽभवत्॥ 2 ॥

अपर्णैव लता सेव्या विद्वद्भिरिति मे मतिः।
यया वृतः पुराणोऽपि स्थाणुः सूतेऽमृतं फलम्॥ 3 ॥
मृणालव्यालवलया वेणीबन्धकपर्दिनी।
हरानुकारिणी पातु लीलया पार्वती जगत्॥ 4 ॥
जन्मान्तरीणरमणस्याङ्गसङ्गसमुत्सुका।
सलज्जा चान्तिके सख्याः पातु नः पार्वती सदा॥ 5 ॥
तपस्वी कां गतोऽवस्थामिति स्मेराननाविव।
गिरिजायाः स्तनौ वन्दे भवभूतिसिताननौ॥ 6 ॥
चिरमाविष्कृतप्रीतिभीतयः पान्तु वो द्विषाम्।
वलयज्यारवोन्मिश्राश्चण्ड्याः कोदण्डकृष्टयः॥ 7 ॥
चण्डीजङ्घाकाण्डः शिरसा चरणस्पृशि प्रिये जयति।
शंकरपर्यन्तजितो5 वीरस्तम्भः स्मरस्येव॥ 8 ॥

उन्नालनाभिपङ्केरुह इव येनावभाति शंभुरपि।
जयति पुरुषायितायास्तदाननं शैलकन्यायाः॥ 9 ॥
अङ्कनिलीनगजानन6शङ्का7कुल8बाहुलेयहृ9तवसनौ।
सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः॥ 10 ॥

10कण्ठोचितोऽपि 11हुकृतिमात्रनिरस्तः पदान्तिके12 पतितः।
यस्याश्चन्द्रशिखः स्मरभल्लनिभो जयति सा चण्डी॥ 11 ॥

विरञ्चिनारायणवन्दनीयो मानं विनेतुं गिरिशोऽपि यस्याः।
कृपाकटाक्षेण निरीक्षणानि व्यपेक्षते सावतु वो भवानी॥ 12 ॥
शिरसि धृतसुरापगे स्मरारावरुणमुखेन्दुरुचिर्गिरीन्द्रपुत्री।
अथ चरणयुगानते स्वकान्ते स्मितसरसा भवतोऽस्तु भूतिहेतुः॥ 13 ॥
तद्वः प्रमार्ष्टु विपदः प्रणतार्तिहन्त्र्या न्यस्तं पदं महिषमूर्धनि चण्डिकायाः।
वैरी यदीयनखरांशुपरीतशृङ्गः शक्रायुधाङ्कितनवाम्बुधरप्रभोऽभूत्॥ 14 ॥
श्रुत्वा षडाननजनुर्मुदितान्तरेण पञ्चाननेन सहसा चतुराननाय।
शार्दूलचर्म भुजगाभरणं सभस्म दत्तं निशम्य गिरिजाहसितं पुनातु॥ 15 ॥
पञ्चास्यपञ्चदशनेत्रपिधानदक्षा दाक्षायणीमृदुकराः कृतिनः पुनन्तु।
द्वौ वल्लकीं कथमकेति च वादयन्तावष्टादशोऽपि घटयन्त्सुतिमौनमुद्राम्॥ 16 ॥
आनन्दमन्थरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य।
पादाम्बुजं भवतु वो विजयाय मञ्जु मञ्जीरशिञ्जितमनोहरमम्बिकायाः॥ 17 ॥
ब्रह्मादयोऽपि यदपाङ्गतरङ्गभङ्ग्या सृष्टिस्थितिप्रलयकारणतां व्रजन्ति।
लावण्यवारिनिधिवीचिपरिप्लुतायै तस्यै नमोऽस्तु सततं हरवल्लभायै॥ 18 ॥
ज्याकृष्टिबद्ध13खटकामुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः।
त्वां पातु मञ्जरितपल्लवकर्णपूरलोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः॥ 19 ॥

पौलस्त्यपीनभुजसंपदुदस्यमानकैलाससंभ्रमविलोलदृशः प्रियायाः।
श्रेयांसि वो दिशतु निह्नुतकोपचिह्नमालिङ्गनोत्पुलकमासितमिन्दु14मौलेः॥ 20 ॥

दिश्यान्महासुरशिरःसरसीप्सितानि प्रेङ्खन्नखावलिमयूखमृणालनालम्।
चण्ड्याश्चलच्चटुलनूपुरचञ्चरीकझांकारहारि चरणाम्बुरुहद्वयं वः॥ 21 ॥
रचयति सहसा यच्चित्रमेतत्प्रपञ्चं प्रशमयति च तद्वत्केनचित्कौतुकेन।
अविदितमपरैस्तच्चण्डमुण्डादिनानादनुजलदलनदक्षं 1शर्वसर्वस्वमव्यात्॥ 22 ॥

प्रचण्डचण्डमुण्डयोर्महाबलैकखण्डिनी ह्यनेकरुण्डमुण्डयुग्रणे बलैकदायिनी।
क्वचित्त्वशक्तिकारिणी रमाविलासदायिनी मुदेऽस्तु कालिका सदा समस्तपापहारिणी॥ 23 ॥
पुरारितनुहारिणी दुरितसङ्घसंहारिणी भजन्मतिविवर्धिनी प्रबलदानबोन्मर्दिनी।
तुषारगिरिनन्दिनी मुनिहृदन्तरालम्बिनी कुमारमुखचुम्बिनी हरनितम्बिनी पातु वः॥ 24 ॥
सत्त्वादिस्थैरगणितगुणैर्हन्त विश्वं प्रसूय व्यक्तं धत्ते प्रहसनकरीं या कुमारीति संज्ञाम्।
मोहध्वान्तप्रसरविरतिर्विश्वमूर्तिः समन्तादाद्या शक्तिः स्फुरतु मम सा दीपवद्देहगेहे॥ 25 ॥
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः॥ 26 ॥
आदौ प्रेमकषायिता हरमुखव्यापारलोला शनैर्व्रीडाभारविघूर्णिता मुकुलिता धूमोद्गमव्याजतः। पत्युः संमिलिता दृशा सरभसव्यावर्तनव्याकुला पार्वत्याः परिणीतिमङ्गलविधौ दृष्टिः शिवायास्तु वः॥ 27 ॥
13प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनव्यग्रया दृष्ट्वाग्रे 14परिणेतुरेव लिखितां गङ्घाधरस्याकृतिम्।
उन्माद1स्मितरोषलज्जितधिया गौर्या कथंचिच्चिराद्वृद्धस्त्रीवचनात्प्रिये विनिहितः पुष्पाञ्जलिः पातु वाः॥ 28 ॥

2रामाद्याचय मेदिनीं 3धनपतेर्बीजं 4बलाल्लाङ्गलं प्रेते5शान्महिषं तवास्ति वृषभः 6फालं त्रिशूलं तव।
शक्ताहं तव चान्नदानकरणे स्कन्दोऽस्ति गोरक्षणे खिन्नाहं हर भिक्षया कुरु कृषिं गौरीवचः पातुः वः॥ 29 ॥

हे हेरम्ब किम्ब रोदिषि कथं कर्णौ लुठत्यग्निभूः7 किं ते स्कन्द विचेष्टितं मम पुरा संख्या कृता चक्षुषाम्।
नैतत्तेऽप्युचितं गजास्य चरितं नासां मिमीतेऽम्ब मे तावेवं सहसा विलोक्य हसितव्यग्रा शिवा पातु वः॥ 30 ॥

मातस्तातजटासु किं सुरसरित्किं शेखरे चन्द्रमाः किं भाले हुतभुग्लुठत्युरसि किं नागाधिपः किं कटौ।
कृत्तिः किं जघनद्वयान्तरगतं यद्दीर्घमालम्बते श्रुत्वा पुत्रवचोऽम्बिका स्मितमुखी लज्जावती पातु वः॥ 31 ॥
धूमव्याकुलदृष्टिरिन्दुकिरणैराह्लादिताक्षी पुनः पश्यन्तीव समुत्सुका नतमुखी भूयो ह्रिया ब्रह्मणः।
सेर्ष्या पादनखेन्दुदर्पणगते गङ्गां दधाने हरे स्पर्शादुत्पुलका करग्रहविधौ गौरी शिवायास्तु वः॥ 32 ॥
8गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः कण्ठस्थाय विषाय वीर्यमहतः पाणौ मणीन्बिभ्रती।
भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा9 रक्षत्वद्रिसुता विवाहसमये प्रीता10 च भीता11 च वः॥ 33 ॥

स्वेदस्यन्दितसान्द्रचन्दनचयं दोर्वल्लिबन्धश्रमादूर्ध्वश्वासपरिस्खलत्स्मरकथं 12संदष्टदन्तच्छदम्।
सीत्कारा15ञ्चितलोचनं सपुलकं भ्रान्तभ्रु नृत्यकरं पार्वत्यां सुरतं मुदे रसवतामास्तां मृडानीपतेः॥ 34 ॥

स्वेदस्ते कथमीदृशः प्रियतमे त्वन्नेत्रवह्नेर्विभो कस्माद्वेपितमेतदिन्दुवदने भोगीन्द्रभीतेस्तव।
रोमाञ्चः16 कथमेष देवि भगवन्गङ्गाम्भसां सीकरैरित्थं भर्तरि 17भावगोपनपरा गौरी चिरं पातु वः॥ 35 ॥

शम्याकस्य रजः प्रमृज्य चरणे दत्तो मया यावको13 निर्मृज्य स्तनकुङ्भले च 14भसितं पत्राङ्कुरो निर्मितः।
स्वच्छन्दं विहरेति जल्पितगिरं साकूतमालीजनं दृष्ट्या केवलमाघ्नती कुटिलया दाक्षायणी पातु वः॥ 36 ॥

वक्त्रं शीतकरोऽधरो घनरसः1 कामप्रदो विग्रहः2 श्वासो गन्धवहः 3सरोरुहसुहृत्पाणिः स्मिताभा शुचिः।4
वक्षः पीनपयो5धरा6धिकरणं पृथ्वी नितम्बस्थलीत्यष्टौ धूर्जटिमूर्तयः स्मरभयाद्दुर्गाश्रिताः पान्तु वः॥ 37 ॥

पादाग्रस्थिता मुहुः स्तनभरेणानीतया नम्रतां शंभोः सस्पृहलोचनत्रयपथं यान्त्या तदाराधने।
ह्रीमत्या शिरसी7हितः सपुलकस्वेदोद्गमोत्कम्पया विश्लिष्यन्कुसुमाञ्जलिर्गिरिजया क्षिप्तोऽन्तरे पातु वः॥ 38 ॥

कैलासालयभाललोचनरुचा निर्वर्तितालक्तकव्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम्।
स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः कान्तिः को8कनदानुकारसरसा सद्यः समुत्सार्यते॥ 39 ॥

लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्तःकपोलस्थलम्।
पार्वत्या नखलक्ष्मशङ्कितसखीनर्मस्मितव्रीडया प्रोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छविः पातु वः॥ 40 ॥
सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि।
सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः॥ 41 ॥
भिक्षुः क्वास्ति बलेर्मखे पशुपतिः किं नास्त्यसौ गोकुले मुग्धे पन्नगभूषणः सखि सदा शेते च तस्योपरि।
आर्ये मुञ्च 9विषादमाशु कमले नाहं प्रकृत्या 10चला चेत्थं वै गिरिजासमुद्रसुतयोः संभाषणं पातु वः॥ 42 ॥

हे गङ्गाधरपत्नि चक्रिवधु किं कुत्रास्त्यसौ नर्तको वृन्दारण्यभुवि क्व सर्पकुतुकी स्यात्कालियस्य ह्रदे।
भिक्षुः कुत्र गतोऽस्ति यज्ञसदने क्वासौ विषादी बकीक्रोडे स्यादिति पद्मजागिरिजयोर्वाग्भङ्गयः पान्तु वः॥ 43 ॥
वेणीबन्धकपर्दिनी सिततनुः श्रीखण्डपांसूत्करैः केतक्येकदलेन्दुभृद्बिसलता व्यालोपवीतिन्यपि।
प्राक्पाणिग्रहणाद्विनोदरभसा सख्याः पुरो लीलया कुर्वाणानुकृतिं हरस्य दिशतु श्रेयांसि वः पार्वती॥ 44 ॥
यस्याङ्घ्रिद्वितयं नमन्ति विबुधाः स त्वेककः सर्ववित्तं मृत्युंजयमामनन्ति मुनयः सोऽद्यापि यातिव्रताः।
इत्याकर्ण्य कथां रहस्यपि यया पत्युर्विवाहात्पुरा भङ्क्त्वाङ्गानि विजृम्भितं गिरिभुवोमोट्टायितं पातु वः॥ 45 ॥
संध्यारागवती स्वभावकृटिला गङ्गा द्विजिह्वः फणी वक्राङ्गैर्मलिनः शखी कपिमुखो नन्दी च मूर्खो वृषः।
इत्थं दुर्जनसंकटे पतिगृहे वस्तव्यमेतत्कथं गौरीत्थं नृकपालपाणिकमला चिन्तान्विता पातु वः॥ 46 ॥
भिक्षार्थी स क्व यातः सुतनु बलिमखे ताण्डवं क्वाद्य भद्रे मन्ये वृन्दावनान्ते क्व नु स मृगशिशुर्नैव जाने वराहम्।
बाले कच्चिन्न दृष्टो 13जरठवृषपतिर्गोप एवास्य वेत्ता लीलासंलाप इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां वः॥ 47 ॥

दीप्तक्षुद्वेगयोगाद्वदनलहलहल्लम्बजिह्वाग्रलीढब्रह्माण्डक्षौद्रबिन्दुप्रबलतरभवज्जाठराग्निस्फुलिङ्गाम्।
कालीं कङ्कालशेषामतुलगलचलन्मुण्डमालाकरालीगुञ्जासंवादिनेत्रामजिननिवसनां नौमि पाशासिहस्ताम्॥ 48 ॥
उद्वाहारोपितार्द्राक्षतनिजपदयोः संगतामिन्दुमौलावानम्रे यां सुधांशोर्व्यधित किल कलां तूर्णमेवान्नपूर्णाम्।
सक्तानामक्षतानाममृतदृगनलोपाधितः पक्वभावान्नानार्थैरन्नपूर्णा प्रणतजनततेः पूर्णतामातनोतु॥ 49 ॥
जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः।
भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभिनमो दण्डपादो भवान्याः॥ 50 ॥
विद्राणे14 रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे।
वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं1 निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा2 भवानी॥ 51 ॥

वक्षःपीठे निरीक्ष्य स्फटिकमणिशिलामण्डलस्वच्छभासि स्वां छायां3साभ्यसूया4 त्वमियमिति मुहुः सत्यमाश्वासितापि।
वामे मे दक्षिणेऽस्याः 5 श्रवसि कुवलयं नाहमित्यालपन्ती दत्ताश्लेषा सहासं मदनविजयिना पार्वती वः पुनातु॥ 52 ॥

रामार्चिताङ्घ्रिरभिरामाकृतिः कृतविरामा 6सुपर्वविपदां कामार्तिहृत्सफलकामा निदेशरतकामादिनिर्जरवधूः।
7भामा हरस्य नुतभामा8 जपा9सदृशभामाननीयचरिता सा मामवत्वखिलसामादृतस्तुतिरसामान्यमुक्तिसुखदा॥ 53 ॥

10बालीयुतश्रवणपालीयुगा ललितचू13लीविराजिबकुला केलीगतानुगमरालीकुला मधुरमा14लीभिरादृतकथा।
1नालीकदृक्कु2सुमनालीकपाणिरिह काली3यशासिसहजा तालीदलाभतनुमाली सदा भवतु काली शुभाय मम सा॥ 54 ॥


  1. पर्वतसंबन्धिनीम्; [पक्षे] पर्वतपुत्रीम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. पर्णरहिताम्; [पक्षे] एतन्नाम्नीं पार्वतीम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. शूलरोगवान्; [पक्षे] त्रिशूलधारी. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. मृत्युनाशकः ; [पक्षे] एतन्नाम्ना प्रसिद्धः शिवः. ↩︎ ↩︎ ↩︎ ↩︎

  5. स्वतः सुखविशेषजनकतया तुच्छविषयपराङ्मुखस्याप्येतादृश्यवस्थासंपादनादिति भावः. ↩︎ ↩︎ ↩︎ ↩︎

  6. स्तनयोः कुम्भिकुम्भसाम्यादिति भावः. ↩︎ ↩︎ ↩︎ ↩︎

  7. कथं मां विहायैनमेव संगोप्य बहुकालं स्तन्यं प्रयच्छतीति धियेति भावः. ↩︎ ↩︎ ↩︎ ↩︎

  8. कार्तिकेयः. ↩︎ ↩︎ ↩︎ ↩︎

  9. गजानननिर्णयार्थमिति भावः. ↩︎ ↩︎ ↩︎ ↩︎

  10. आलिङ्गनार्होऽपि; [पक्षे] अर्धचन्द्राकारतया कण्ठलक्ष्ययोग्योऽपि. ↩︎ ↩︎ ↩︎ ↩︎

  11. न तु करतर्जनादिना; [पक्षे] बाणादिना. ↩︎ ↩︎

  12. प्रणामार्थमिति भावः; [पक्षे] वेगवशादिति भावः. ↩︎ ↩︎

  13. हस्तविन्यासविशेषः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  14. इन्दुमौलेः प्रियायाः पार्वत्याः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  15. निमीलित. ↩︎

  16. रोमहर्षणम्. ↩︎

  17. स्वाभिप्राय. ↩︎