नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे।
त्रैलोक्यनगरारम्भमूलस्तम्भाय संभवे॥ 1 ॥
वामाङ्गीकृतवामाङ्गि1 कुण्डलीकृतकुण्डलि2।
आविरस्तु पुरो वस्तु भूतिभूत्यम्बराम्बरम्3॥ 2 ॥
4निरुपादानसम्भा5रमभित्तावेव तन्वते।
जगच्चित्रं6 नमस्तस्मै 7कलाश्लाष्याय शूलिने॥ 3 ॥
चन्द्राननार्धदेहाय चन्द्रांशुसितमूर्तये।
चन्द्रार्कानलनेत्राय चन्द्रार्धशिरसे नमः॥ 4 ॥
भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः।
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः॥ 5 ॥
पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता।
पवर्गरचिता मूर्तिर8पवर्गप्रदास्तु वः॥ 6 ॥
दिगम्बरनितम्बिन्याः किमम्बरविभूषणम्।
इत्थं वरहरः पायात्परीरम्भहरः परौ॥ 7 ॥
ॐ नमः परमार्थैकरूपाय परमात्मने।
स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे॥ 8 ॥
नमः शिवाय निःशेषक्लेशप्रशमशालिने।
त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने॥ 9 ॥
समस्तलक्षणायोग एव यस्योपलक्षणम्।
तस्मै नमोऽस्तु देवाय कस्मैचिदपि शंभवे॥ 10 ॥
संसारैकनिमित्ताय संसारैकविरोधिने।
नमः सम्साररूपाय निःसम्साराय सम्भवे॥ 11 ॥
सदसत्त्वेन भावानां युक्ता या द्वितयी स्थितिः।
तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे॥ 12 ॥
आसन्नाय सुदूराय गुप्ताय प्रकटात्मने।
सुलभायातिदुर्गाय नमश्चित्राय शम्भवे॥ 13 ॥
सम्सेवितभृगुतुङ्गं विद्योतितवेदवेदाङ्गम्।
परिनर्तितभवरङ्गं मनसिजभङ्गं समाश्रये लिङ्गम्॥ 14 ॥
स जयति हिमकरलेखा चकास्ति यस्योमयोत्सुकान्निहिता।
नयनप्रदीपकज्जलजिघृक्षया रजतशुक्तिरिव॥ 15 ॥
पाणिग्रहे9 पुलकितं10 वपुरैशं भूतिभूषितं11 जयति।
अङ्कुरित इव 12मनोभूर्यस्मिन्भस्मावशेषोऽपि॥ 16 ॥
मा वम सम्वृणु विषमिदमिति सातङ्कं पितामहे नोक्तः।
प्रातर्जयति सलज्जः कज्जलमलिनाधरः शम्भुः॥ 17 ॥
जयति प्रियापदान्ते गरलग्रैवेयकः13 स्मरारातिः।
विष14मविशिखे विशन्निव शरणं गलबद्धकरवालः॥ 18 ॥
सन्ध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन्।
गौरीमुखार्पितमना विजयाहसितः शिवो जयति॥ 19 ॥
प्रणयकुपितप्रियापदलाक्षासन्ध्यानुबन्धमधुरेन्दुः15।
तद्वलयकनकनिकषग्रावग्रीवः शिवो जयति॥ 20 ॥
अहिभूषणोऽप्यभयदः सुकलितहालाहलोऽपि यो नित्यः।
दिग्वसनोऽप्यखिलेशस्तं शशधरशेखरं वन्दे॥ 21 ॥
जयति जटाकिञ्जल्कं2 गङ्गामधु मुण्डवलयबीजमयम्।
गलगरलपङ्कसम्भवमम्भोरुहमाननं शम्भोः॥ 22 ॥
प्रतिबिम्बितगौरीमुखविलोकनोत्कम्पशिथिलकरगलितः।
स्वेदभरपूर्यमाणः शम्भोः सलिलाञ्जलिर्जयति॥ 23 ॥
3आदाय चापमचलं4 कृत्वाहीनं5 गुणं विषमदृष्टिः6।
यश्चित्रमच्यु7तशरो 8लक्ष्यमभा9ङ्क्षीन्नमस्तस्मै॥ 24 ॥
10उपहरणं विभवानां सम्हरणं सकलदुरितजालस्य।
उद्धरणं सम्साराच्चरणं वः श्रेयसेऽस्तु विश्वपतेः॥ 25 ॥
आदृतकुपितभवानीकृतकरमालादिबन्धनव्यसनः।
कलिकलाकलहादौ देवो वः शङ्करः पायात्॥ 26 ॥
भिक्षुकोऽपि सकलेप्सितदाता प्रेतभूमिनिलयोऽपि पवित्रः।
भूतमित्रमपि योऽभयसत्त्री तं विचित्रचरितं शिवमीडे॥ 27 ॥
पाणिग्रहे पर्वतराजपुत्र्याः पादाम्बुजं पाणिसरोरुहाभ्याम्।
अश्मानमारोपयतः स्मरारेर्मन्दस्मितं मङ्गलमातनोतु॥ 28 ॥
पार्श्वस्थपृथ्वीधरराजकन्याप्रकोपविस्फू11र्जथुकातरस्य।
नमोऽस्तु ते मातरिति प्रणामाः शिवस्य संध्याविषया जयन्ति॥ 29 ॥
क्व तिष्ठतस्ते पितरौ ममेवेत्यपर्णयोक्ते परिहासपूर्वम्।
क्व वा ममेव श्वशुरौ तवेति तामीरयन्सस्मितमीश्वरोऽव्यात्॥ 30 ॥
स पातु वो यस्य जटाकलापे स्थितः शशाङ्कः स्फुटहारगौरः।
नीलोत्पलानामिव नालपुञ्जे निद्रायमाणः शरदीव हंसः॥ 31 ॥
जगत्सिसृक्षाप्रलयक्रियाविधौ प्रयत्नमुन्मेषनिमेषविभ्रमम्।
वदन्ति यस्येक्षणलोलपक्ष्मणां पराय तस्मै परमेष्ठिने नमः॥ 32 ॥
वक्त्राणि पञ्च कुचयोः प्रतिबिम्बितानि दृष्ट्वा दशाननसमागमनभ्रमेण।
भूयोऽपि शैलपरिवृत्तिभयेन गाढमालिङ्गितो गिरिजया गिरिशः पुनातु॥ 33 ॥
संध्यानतौ नरपुरन्ध्रितनोः सरोषमुत्सारिते गिरिजया निजपाणिपद्मे।
उत्सर्पिकङ्कणफणीन्द्रफणार्पणेन पूर्णोऽञ्जलिर्जयति बालमृगाङ्कमौलेः॥ 34 ॥
यस्याहुरागमविदः परिपूर्णशक्तेरंशे कियत्यपि निविष्टममुं प्रपञ्चम्।
तस्मै तमालरुचिभासुरकन्धराय नारायणीसहचराय नमः शिवाय॥ 35 ॥
व्योम्नीव नीरदभरः सरसीव वीचिव्यूहः सहस्रमहसीव सुधांशुधाम।
यस्मिन्निदं जगदुदेति च लीयते च तच्छांभवं भवतु वैभवमृद्धये वः॥ 36 ॥
यः कन्दुकैरिव पुरन्दरपद्मसद्मपद्मापतिप्रभृतिभिः प्रभुरप्रमेयः।
खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्याकान्तः कृतान्तदलनो लगयत्वघं वः॥ 37 ॥
मुक्तिर्हि नाम परमः पुरुषार्थ एकस्तामन्तरायमवयन्ति यदन्तरज्ञाः।
किं भूयसा भवतु सैव सुधामयूखलेखाशिखाभरणभक्तिरभङ्गुरा वः॥ 38 ॥
दिश्यात्स शीतकिरणाभरणः शिवं वो यस्योत्तमाङ्गभुवि विस्फुरदूर्मिपक्षा।
हंसीव निर्मलशशाङ्ककलामृणालकन्दार्थिनी सुरसरिन्नभसः पपात॥ 39 ॥
श्रेयांसि वो दिशतु यस्य सिताभ्रशुभ्रा विभ्राजते सुरसरिद्वरमौलिमाला।
ऊर्ध्वेक्षणज्वलनतापविलीयमानचन्द्रामृतप्रविततामृतवाहिनीव॥ 40 ॥
कुसुमशरविलासे भङ्गुरस्याद्रिपुत्रीकरतलवलयस्य क्ष्मागतस्यार्धमेकम्।
निजमिव शशिखण्डं याचमानस्य शम्भोर्भवतु सह विवादः कान्तया कौतुकाय॥ 41 ॥
कथयत कथमेषा मेनया विप्रदत्ता शिव शिव गिरिपुत्री वृद्धकापालिकाय।
इति वदति पुरंध्रीमण्डले सिद्धिलेशव्ययकृतवरवेषः पातु वः श्रीमहेशः॥ 42 ॥
अरुणनयनं सभ्रूभङ्गं दरस्फुरिताधरं सुतनु शशिनः क्लिष्टां कान्तिं करोतु तवाननम्।
कृतमनुनयैः कोपोऽयं ते मनस्विनि वर्धतामिति गदितयाश्लिष्टो देव्या शिवाय शिवोऽस्तु वः॥ 43 ॥
प्रणयकुपितां दृष्ट्वा देवीं ससम्भ्रमविस्मितस्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत्।
नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतस्त्र्यक्षस्यैतद्विलक्षमवस्थितम्॥ 44 ॥
कस्त्वं शूली2 मृगय भिषजं3 नील4कण्ठः प्रियेऽहं केकामेकां5 कुरु पशुपतिर्नैव दृश्ये विषाणे6।
स्थाणुर्मुग्धे7 न वदति तरुर्जीवितेशः शिवाया8 गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः॥ 45 ॥
वन्दे देवं 9जलधिशरधिं देवतासार्वभौमं 10व्यासप्रष्ठा भुवनविदिता यस्य 11वाहाधिवाहाः।
12भूषापेटी भुवनमधरं13 पुष्करं14 पुष्पवाटी15 शाटीपालाः16 2शतमखमुखाश्च3न्दनद्रुर्मनोभूः॥ 46 ॥
दीव्यन्मौलित्रिदशपरिषज्जीवनीयेन धाम्ना पश्यद्भालं वलभितकरं प्राणता कङ्कणेन।
वामाङ्गेन स्फुटमभिदधन्मान्मथीं ब्रह्मविद्यां जीयादोजस्त्रिपुरयुवतीपत्रवल्लीलवित्रम्॥ 47 ॥
च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया।
अवोचद्यं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः॥ 48 ॥
नमस्तुभ्यं देवासुरमुकुटमाणिक्यकिरणप्रणा4लीसम्भेदस्नपितचरणाय स्मरजिते।
महाकल्पस्वाहाकृतभुवनचक्रेऽपि नयने निरोद्धुं भूयस्तत्प्रसरमिव कामं हुतवते॥ 49 ॥
असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वपि च रसिकः शैलदुहितुः।
प्रमोदं वो दिश्यात्कपटवटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः॥ 50 ॥
सहस्रास्यो नागः प्रभुरपि मतः पञ्चवदनः षडास्यो हन्तैकस्तनय इतरो वारणमुखः।
सदा भैक्ष्यं शश्वत्प्रभवतु कथं वर्तनमिति श्वसन्त्यां पार्वत्यामथ जयति शंभुः स्मितमुखः॥ 51 ॥
मौनादस्तमितैव चाटुभणितिः स्रस्तैकहस्ताद्गतं दूरेऽप्यञ्जलिबन्धनं प्रणमनं स्तब्धार्धमूर्ध्नः कुतः।
इत्थं संघटितैकविग्रहतया5 व्यग्रो6 गिरिग्रामणीर्जायां जातरुषं जयत्यनुनयन्देवस्त्रिलोकीगुरुः॥ 52 ॥
यस्मिन्बुद्बुदसङ्करा इव बहुब्राह्माण्डखण्डाः क्वचिद्भान्ति क्वापि च सीकराइव विरिञ्चाद्याः स्फुरन्ति भ्रमात्।
चिद्रूपा लहरीव विश्वजननी शक्तिः क्वचिद्द्योतते स्वानन्दामृतनिर्भरं शिवमहापाथोनिधिं तं नुमः॥ 53 ॥
कल्पान्ते शमितत्रिविक्र7ममहाकङ्का8लबद्धस्फुरच्छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः9।
विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ कर्षन्धीवरतां गतः स्यतु सतां10 मोहं महाभैरवः॥ 54 ॥
भीतिर्नास्ति भुजङ्गपुङ्गवविषात्प्रीतिर्न चन्द्रामृतान्नाशौचं हि कपालदामलुलनाच्छौचं न गङ्गाजलात्।
नोद्वेगश्चितिभस्मना न च सुखं गौरीस्तनालिङ्गनादात्मारामतया हिताहितसमः स्वस्थो हरः पातु वः॥ 55 ॥
वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी11 यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः।
अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः॥ 56 ॥
आनन्दश्लथिताः समाधिषु मुखे गौर्या विलासोल्लसाः सम्भ्रान्ताः क्षणमुद्गताः क्षणमथ स्मेरा निजे वैकृते2।
क्रूराः कृष्टशरासने मनसिजे दग्धे घृणाकूणितास्तत्कान्तारुदितेऽश्रुपूरतरलाः3 शंभोर्दृशः पान्तु वः॥ 57 ॥
स्वर्भानुः4 सुरवर्त्मनानुसरति ग्रासाभिलाषादसाविन्दोरिन्दुमुखि ग्रसेत किमुत भ्रान्त्या भवत्या मुखम्।
इत्थं नाथगिरा नभोर्पितदृशो वक्त्रे भवान्या भृशं मानिन्याः कृतचुम्बनस्त्रिनयनस्तादिष्टसिद्ध्यै सताम्॥ 58 ॥
विष्णोश्चागमनं निशम्य सहसा कृत्वा फणीन्द्रं गुणं5 कौपीनं परिधाय चर्म करिणः शम्भौ पुरो धावति।
दृष्ट्वा विष्णुरथं6 सकम्पहृदयः सर्पोऽपतद्भूतले 7कृत्तिर्विस्खलिता ह्रियानतमुखो नग्नो हरः पातु वः॥ 59 ॥
भस्मान्धोरगफूत्कृतिस्फुटभवद्भालस्थवैश्वानरज्वालास्विन्नसुधाम्शुमण्डलगलत्पीयूषधारारसैः।
संजीवद्गजचर्मगर्जितभयभ्राम्यद्वृषाकर्षणव्यासक्तः सहसाद्रिजोपहसितो नग्नो हरः पातु वः॥ 60 ॥
एकोऽन्ते द्विसमस्त्रिलोचन इति ख्यातश्चतुर्भिः स्तुतो वेदैः पञ्चमुखः षडाननपिता सप्तर्षिभिर्वन्दितः।
अष्टाङ्गो नवतुल्य आमरगणे वासो दशाशा दधत्स्वश्चैकादश सोऽवतान्न विजितो यो द्वादशात्मांशुभिः॥ 61 ॥
लीलाद्यूतजितां कलाधरकलां मौलौ दृढं कीलितां स्वीकर्तुं युगमुन्नमय्य भुजयोर्विश्लेषयत्न्यास्तदा।
पार्वत्याः कुचकुम्भपार्श्वयुगले सप्रेमदत्तेक्षणः 8कालक्षेपणमिन्दुमोचनविधौ देवः स नो रक्षतु॥ 62 ॥
भूत्यालेपनभूषितः प्रविलसन्नेत्राग्निदीपाङ्कुरः कण्ठे पन्नगपुष्पदामसुभगो गङ्गाजलैः पूरितः।
ईषत्ताम्रजटाग्रपल्लवयुतो न्यस्तो जगन्मण्डपे शम्भुर्मङ्गलकुम्भतामुपगतो भूयात्सतां श्रेयसे॥ 63 ॥
मल्लीमाल्यधिया सुधाकरकलां कण्ठश्रियं कज्जलभ्रान्त्या भालविलोचनानलशिखां सिन्दूरपूराशया।
कैलासे प्रतिबिम्बितात्स्ववपुषो गृह्णन्हसन्त्या मुहुः पार्वत्या प्रतिकर्मकर्मणि चिरं मुग्धो हरः पातु वः॥ 64 ॥
दास्येऽहं परिरम्भणानि कितवद्यूते9 जितानि त्वया धेर्यं धैहि यतः कृतः शतमहोरात्राणि तत्रावधिः।
इत्युक्तः शिवया निशादिवसकृज्ज्योतिर्मयाक्षिद्वयद्रागुन्मेषनिमेषकोटिघटनाव्यग्रो हरः पातु वः॥ 65 ॥
मौलौ किं नु महेश मानिनि जलं किं वक्त्रमम्भोरुहं किं नीलालकवेणिका मधुकरी किं भ्रूलता वीचिका।
किं नेत्रे शफरौ किमु स्तनयुगं प्रेङ्खद्रथाङ्गद्वयं10 साशङ्कामिति वञ्चयन्गिरिसुतां गङ्गाधरः पातु वः॥ 66 ॥
देव्याः प्राक्परिरम्भणे2 किल करौ द्वौ द्वौ पुनस्तत्करौ रोद्धुं तन्मुखमुन्मुखं रचयितुं द्वौ चाधरास्वादने।
द्वौ नेत्रान्तपलालकोपनयने (?) मोक्तुं च नीवीं दृढां द्वावित्थं सफलीकृताखिलकरः पायात्स वः शङ्करः॥ 67 ॥
न क्रोधः क्रियतां प्रिये स तु भवन्मौलिस्थगङ्गोदरे मुग्धे मानमपूजितं त्यज कृतं युष्मन्नियोगद्वयम्। वक्रे श्लेषममुं निराकुरु कदाश्लिष्टोऽसि वक्रे मया वामाङ्ग्येति हृतोत्तरः स्मरहरः स्मेराननः पातु वः॥ 68 ॥
अङ्गं येन रथीकृतं नयनयोर्युग्मं रथाङ्गीकृतं पत्रं स्वं रथकर्मसारथिकृतं श्वासास्तुरङ्गीकृताः।
कोदण्डीकृतमात्मवीर्यमचिरान्मौर्वीकृतं भूषणं3 वामाङ्गं विशिखीकृतं दिशतु नः क्षेमं स धन्वी पुमान्॥ 69 ॥
नृत्यारम्भरसत्रसद्गिरिसुतारिक्तार्धसम्पूर्तये नि4र्व्यूढभ्र5मिविभ्रमाय जगतामीशाय तुभ्यं नमः।
यच्चूडाभुजगेश्वरप्रभृतिभिस्तादृग्भ्रमन्तीर्दिशः पश्यद्भिर्घनघूर्णमाननयनैः शान्तोऽपि न श्रद्दधे॥ 70 ॥
उद्दामभ्रमिवेगविस्तृतजटावल्ली6प्रणालीपतत्स्वर्गङ्गाजलद7ण्डिकावलयितं निर्माय तत्पञ्जरम्।
सम्भ्राम्यद्भुजदण्डपक्षपटलद्वन्द्वेन हंसायितस्त्रैलोक्यव्ययनाटिकानयनटः स्वामी जगत्त्रायताम्॥ 71 ॥
यन्नाट्यभ्रमिघूर्णमानवसुधाचक्राधिरूढे भृशं मेरौ पार्श्वनिवासिवासरनिशाचित्रे8 परिभ्राम्यति।
तैजस्यस्तडितो भवन्तु शतशो दृष्टा हि तास्ताः कथं 9तामस्योऽपि स वः पुनातु जगतामन्त्येष्टियज्वा विभुः॥ 72 ॥
तत्कालार10भटीविजृम्भणपरित्रासादिव भ्रश्यता वामार्धेन तदेकशेषकरणं बिभ्रद्वपुर्भैरवम्।
तुल्यं चास्थिभुजङ्गभूषणमसौ भोगीन्द्रकङ्कालकैर्बिभ्राणः परमेश्वरो विजयते कल्पान्तकर्मान्तिकः॥ 73 ॥
चञ्चच्चन्द्रिकचन्द्रचारुकुसुमो माद्यज्जटापल्लवो दृप्यद्दारुणदन्द11शूकमणिमांस्तत्पञ्चशाखालयः (?)।
स्थाणुर्मे फलदो भवत्वतितरां गौरीमुखेन्दुद्रवत्पीयूषद्रवदोहदादिव दधद्देवद्रुमत्वं सदा॥ 74 ॥
वक्राम्भोरुहि विस्मिताः स्तबकिता वक्षोरुहि स्फारिताः श्रोणीसीमनि गुम्फिताश्चरणयोरक्ष्णोः पुनर्विस्तृताः।
पार्वत्याः प्रतिगात्रचित्रगतयस्तन्वन्तु भद्राणि वो विद्धस्यान्तिकपुष्पसायकशरैरीशस्य दृग्भङ्गयः॥ 75 ॥
शैलेन्द्र12प्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः।
आः शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तः पुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः॥ 76 ॥
दिक्कालात्मसमैव यस्य2 विभुता 3यस्तत्र विद्योतते 4यत्रामुष्य5 सुधीभवन्ति किरणा राशेः 6स 7यासामभूत्।
8यस्त9त्पित्तमुषः10सु 11योऽस्य12 हविषे 13यस्तस्य14 जीवातवे वोढा 15युद्गुणमेष16 मन्मथरिपोस्ताः पान्तु नो मूर्तयः॥ 77 ॥
जीर्णेऽप्युत्कटकालकूटगरले प्लुष्टे तथा मन्मथे नीते भासुरभालनेत्रतनुतां कल्पान्तदावानले।
यः शक्त्या समलंकृतोऽपि शशिनं शैलात्मजां स्वर्धुनीं धत्ते कौतुकराजनीतिनिपुणः पायात्स वः शङ्करः॥ 78 ॥
किं गोत्रं किमु जीवनं किमु धनं का जन्मभूः किं वयः किं चारित्र्यममुष्य के सहचराः के वंशजाः प्राक्तनाः।
का माता जनकः शिवस्य क इति प्रह्वेण17 पृथ्वीभृता पृष्टाः सस्मितनम्रमूकवदनाः सप्तर्षयः पान्तु वः॥ 79 ॥
तादृक्सप्तसमुद्रमुद्रितमहीभूभृद्भिरभ्रंकषैः स्रोतोभिः परिवारिता दिशि दिशि द्वीपैः समन्तादयम्।
यस्य स्फारफणावलीमणिचये मज्जत्कलङ्काकृतिः शेषः सोऽप्यगमद्यदङ्गदपदं नस्मै नमः शंभवे॥ 80 ॥
तारानायकशेखराय जगदाधाराय धाराधरच्छायाधारककन्धराय गिरिजासङ्गैकभृङ्गारिणे।
नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय नित्यं नतिः॥ 81 ॥
केयूरीकृतकङ्कणीकृतजटाजूटावतंसीकृतज्यावल्लीकृतकुण्डलीकृतकटीसूत्रीकृताहीश्वरः।
पायाद्वस्तिलकीकृतप्रियतमादर्शीकृताक्षीकृतद्यूतारम्भपणीकृतेन्दुशकलः कात्यायनीकामुकः॥ 82 ॥
कान्तां कामपि कामयत्यनुदिनं ध्यानापदेशादयं येनामुं मुनयोऽप्यनादिनिधनं ध्यायन्ति दौतस्पृहाः।
इत्यङ्कात्स्वकरे हृते गिरिजया पादे च पद्मासनाद्विश्वं पातु पुरन्ध्रिनद्धवपुषः शम्भोः समाधिव्ययः॥ 83 ॥
स्नातः स्वर्गतरङ्गिणीजलभरैर्नेत्रोत्पलेनाञ्चितः पार्वत्याः सितभूतिचन्दनचयैरालिप्तगात्रोज्ज्वलः।
देवश्चन्द्रकलासितभ्रुतिलको गौरीविवाहोत्सवारम्भे शैलकृतार्हणस्त्रिजगतामर्च्यो हरः पातु वः॥ 84 ॥
उज्झित्वा दिशमम्बरं वरतरं वासो वसानश्चिरं हित्वा वासरसं पुनः पितृवने कैलासहर्म्याश्रयः।
त्यक्त्वा भस्म कृताङ्गरागनिचयः श्रीखण्डसारद्रवैर्देवः पातु हिमाद्रिजापरिणयं कृत्वा गृहस्थः शिवः॥ 85 ॥
क्रीडन्मन्दरकन्दरोदरवलन्मन्दारवृन्दावने क्रोधान्धान्धकटातयाशु हरणे जृम्भत्त्रिशूलोद्गमः।
त्रैलोक्याखिलसंकटोत्कटभयोद्वेलान्धकारांशुमान्पायाद्वस्त्रिपुरप्रमाथनपटुर्देवो हि पञ्चाननः॥ 86 ॥
गर्जद्भीमभुजंगभीषणफणाफूत्कारभीतिप्रदः क्रीडत्प्रेतपिशाचराक्षसगणः प्रत्यक्षतः प्रान्ततः।
भालस्थप्रलयानलोद्भटशिखः संक्रान्तसर्वास्पदः शार्दूलाजिनभृद्भयानकभयो भूयाद्भवो भूतये॥ 87 ॥
गौरीचुम्बनचञ्चलं परिचलद्गण्डप्रभामण्डलं व्यावल्गत्फणिकुण्डलं रतिरसप्रस्विन्नगण्डस्थलम्।
प्रौढप्रेमपरम्परापरिचयप्रोत्फुल्लनेत्राञ्जलं शम्भोरस्तु विभूतये हि भवतामुन्मत्तगङ्गं शिरः॥ 88 ॥
पाणौ कङ्कणमुत्फणं फणिपतिर्नेत्रं लसत्पावकं कण्ठः कुण्ठितकालकूटविषमो वस्त्रं गजेन्द्राजिनम्।
गौरीलोचनलोभनाय सुभगो वेषो वरस्यास्ति मे गण्डोल्लासविभावितः पशुपतेर्हासोद्गमः पातु वः॥ 89 ॥
दिव्यं2 वारि कथं यतः सुरधुनी मौलौ कथं पावको दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव।
तस्माद्द्यूतविधौ त्वयाद्य मुषितो हारः परित्यज्यतामित्थं शैलभुवा विहस्य लपितः शंभुः शिवायास्तु वः॥ 90 ॥
श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता।
दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः॥ 91 ॥
त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतां शं सतां हन्ता भक्तिमतां सतां स्वसमतां कर्तापकर्तासताम्।
देवः सेवकभुक्तिमुक्तिरचनाभूर्भूर्भुवःस्वस्त्रयीनिर्माणस्थितिसंहृतिप्रकटितक्रीडो मृडः पातु वः॥ 92 ॥
एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते।
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरंगायते एवं यो विनिगूहते त्रिपथगां पायात्स वः शंकरः॥ 93 ॥
मार्जीव किमेतदङ्गुलिपुटे तातेन गोपाय्यते वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम्।
मात्रैवं प्रहिते गुहे विघटयत्याकृष्य संध्याञ्जलिं शंभोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः॥ 94 ॥
सन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज्ज शिरसा तन्नाम सोढं मया।
श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितं मा स्त्रीलम्पट मां स्पृशेति गदितो गौर्या हरः पातु वः॥ 95 ॥
तावत्सप्तसमुद्रमुद्रितमही भूभृद्भिरभ्रंकषैस्तावद्भिः परिवारिता पृथुतरैर्द्वीपैः समन्तादियम्।
यस्य स्फारफणामणौ निलयिनी तिर्यक्फणालङ्कृतिः शेषः सोऽप्यगमद्यदङ्गदपदं रुद्राय तस्मै नमः॥ 96 ॥
चिन्ताचक्रिणि हन्त चक्रिणि भिया कुब्जासनेऽब्जासने नश्यद्धामनि तिग्मधामनि धृताशङ्के शशाङ्के भृशम्।
भ्रश्यच्चेतसि च प्रचेतसि शुचा तान्ते कृतान्ते च यो व्यग्रोऽभूत्कटुकालकूटकवलीकाराय पायात्स वः॥ 97 ॥
तातं तत्ताततातं कथयहरकुलेऽलङ्कृते संप्रदाने तच्छ्रुत्वा चन्द्रमौलिर्नतमुखमलो जातलज्जो बभूव।
ब्रह्मावादीत्तदानीं शृणुत हरकुलं वेदकण्ठोग्रकण्ठौ श्रीकण्ठान्नीलकण्ठः प्रहसितवदनः पातु वश्चन्द्रचूडः॥ 98 ॥
या2 सृष्टिः स्रष्टुराद्यावहति विधिहुतं 3या हविर्या4 च होत्री ये द्वे5 कालं विधत्तः श्रुतिविषयगुणा 6या स्थिता व्याप्य विश्वम्।
यामाहुः7 सर्वबीजप्रकृतिरिति 8यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥ 99 ॥
एकैश्वर्यस्थितोऽपि प्रणतबहुफलो यः स्वयं कृत्तिवासाः कान्तासम्मिश्रदेहोऽप्यविषयमनसां यः पुरस्ताद्यतीनाम्।
अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपनयतु स नस्तामसीं वृत्तिमीशः॥ 100 ॥
कैलासाद्रावुदस्ते9 परिचलति गणेषूल्लसत्कौतुकेषु क्रोडं10 मातुः कुमारे विशति विषमुचि11 प्रेक्षमाणे सरोषम्।
पादावष्टम्भसीदद्वपुषि दशमुखे याति पातालमूलं क्रुद्धोऽप्याश्लिष्टमूर्तिर्भयघनमुमया पातु हृष्टः शिवो नः॥ 101 ॥
क्रोधेद्धैर्दृष्टिपातैस्त्रिभिरुपशमिता वह्नयोऽमी त्रयोऽपि12 त्रासार्ता ऋत्विजोऽधश्चपलगणहृतोष्णीषपट्टाः पतन्ति।
दक्षः स्तौत्यस्य पत्नी विलपति कृपणं13 विद्रुतं चापि देवैः शम्सन्नित्यात्तहासो मखमथनविधौ पातु देव्यै शिवो वः॥ 102 ॥
आसीने 14पूष्णि तूष्णीं व्यसनिनि शशिनि व्योम्नि कृष्णे सतृष्णे दैत्येन्द्रे जातनिद्रे द्रवति मघवति क्लान्तकान्तौ कृतान्ते।
अब्रह्मण्यं ब्रुवाणे कमलपुटकुटीश्रोत्रिये15 शान्त्युपाये पायाद्वः कालकूटं झटिति कवलयंल्लीलया नीलकण्ठः॥ 103 ॥
केयं मूर्घ्न्यन्धकारे16 तिमिरमिह कुतः सुभ्रुकान्तेन्दुयुक्ते कान्ताप्यत्रास्ति काचिन्ननु भवतु मया पृष्टमेतावदेव।
नाहं द्वन्द्वं करोमीत्यपनय शिरसस्तूर्णमेनामिदानीमित्थं प्रोक्तो भवान्या प्रतिवचनजितः पातु वश्चन्द्रचूडः॥ 104 ॥
धन्या केयं स्तिता ते शिरसि शशिकला किं नु नामैतदस्या नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः।
नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः॥ 105 ॥
हर्षादम्भोजजन्म18प्रभृतिदिविषदां संसदि प्रीतिमत्या श्वश्र्वा मौलौ पुरारेर्दुहितृपरिणये साक्षतं चुम्ब्यमाने।
तद्वक्त्रं मौलिवक्त्रे मिलितमिति भृशं वीक्ष्य चन्द्रः सहासो दृष्ट्वा तद्वृत्तमाशु स्मितसुभगमुखः पातु वः पञ्चवक्त्रः॥ 106 ॥
कल्पान्त-क्रूर-केलिः, क्रतु-कदन-करः, कुन्द-कर्पूर-कान्तिः
क्रीडन् कैलास-कूटे, कलित–कुमुदिनी-कामुकः+++(=चन्द्रः)+++ कान्त-कायः।
कङ्काल-क्रीडनोत्कः कलित-कल-कलः काल-काली-कलत्रः
कालिन्दी-काल-कण्ठः कलयतु कुशलं कोऽपि कापालिको नः॥ 107 ॥ +++(4)+++
English
He who engages in the cruel game of destruction at the end of the eon,
the destroyer of [Dakşa’s] ritual,
with camphor- and jasmine-hued luster,
who sports on the peak of Kailasa,
who wearing the crescent moon,
is the ardent lover sharing shalf of his body with his wife,
who enjoys playing with skeletons,
who manifests in the many arts,
who has the black goddess of time (Kālī) as his wife,
who has a throat as black as the Kālindī river (Yamunā),
verily may that skull-bearer send forth benevolence to us. - MT
(कान्त-कायः, कलित-कल-कलः इत्येतयोर् अनुवादस्यौचित्ये सन्देहः। )
दृष्टः सप्रेम देव्या किमिदमिति भयात्सम्भ्रमाच्चासुरीभिः शान्तान्तस्तत्त्वसारैः सकरुणमृषिभिर्विष्णुना सस्मितेन।
आदायास्त्रं सगर्वैरुपशमितवधूसम्भ्रमैर्दैत्यवीरैः सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान्॥ 108 ॥
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराध स दहतु दुरितं शांभवो वः शराग्निः॥ 109 ॥
कल्याणं वः क्रियासुर् मिलद्19–अट-नियुग–स्थास्नु20–गीर्वाण-भोगि-
स्त्रैण-व्यत्यस्त–कल्प-द्रुम–नव-सुमनो–नाग-हारावलीनि।
21नालीकाश्लिष्ट-लक्ष्मी-कर-तल-कमलोद्वान्त22-माध्वीक-धारा-
तिम्यत्+++(=आर्द्र)+++-फालेक्षणानि23 त्रि-पुर-हर-धनुर्-ज्या-लताऽऽकर्षणानि॥ 110 ॥
English
May the drawings of the string-creeper of the Tripura-destroying bow by him engaged in [aiming at] the conjunction of the wandering (citadels],
ornamented by the fresh floral wreaths from the celestial tree crossing the snake-garlands placed by the divine and serpentine ladies stationed on the string-notch,
with a stream of nectar dripping from the lotus in the palm of Laksmī embracing the missile moistening the eye on his forehead, be felicitous to you all. - MT
कल्पान्ते क्रोधनस्य त्रिपुरविजयिनः क्रीडया सञ्चरिष्णोः कृत्वापि प्राणिजातैर्निजमुखकुहरातिथ्यमप्राप्ततृप्तेः।
दिग्भित्तीः प्रेक्ष्य शून्याः प्रलयजलनिधिप्रेक्षितात्मीयमूर्तिग्रासव्यासक्तमोघश्रमजनितरुषः पान्तु वो गर्जितानि॥ 111 ॥
8पर्यङ्कग्रन्थिबन्ध9त्रिगुणितभुजगाश्लेषसंवीत10जानोरन्तःप्राणावरोधव्यु11परतसकलज्ञानरुद्धेन्द्रियस्य।
आत्मन्यात्मानमेव व्यपगतकरणं12 पश्यतस्तत्त्वदृष्ट्या शम्भोर्वः पातु 13शून्येक्षणघटितलय14ब्रह्मलग्नः समाधिः॥ 112 ॥
वृत्ताभिख्यां हृतार्यां श्रितविविधगणां छन्दसां वर्णनीयां यातां सर्वादिमत्त्वं सुरगणकलितां भासमत्वं दधानाम्।
युक्तं स्थानं नयन्तीं लघुमपि सकलं बिभ्रतीं मालयायान्वन्दे वार्धीभवर्णां धृतमुनियतिकां स्रग्धरां शंभुर्मूर्तिम्॥ 113 ॥
देहार्धानद्धकान्ताकचकुसुमचयो भालनेत्रानलार्चिः पीनोष्मामौलिखेलन्मुखरसुरनदीनीररम्यो जगन्ति।
स्फीतोत्तंसेन्दुकान्तिर्द्विरददृढाच्छादनव्यक्तशीतः शंभुर्भूषास्थिकुन्दप्रकरपरिवृतः पातु सर्वर्तुमूर्तिः॥ 114 ॥
हेयोपादेयशून्यं मुनिगणमनसामद्वयानन्दहेतुः सेतुः संसारवारांनिधिसुखतरणे श्रीमहेशानसंज्ञम्।
प्रालेयं ज्योतिरन्तः परिणततिमिरव्यूहविच्छेददक्षं किञ्चिद्वाचामधीशं स्फुरतु मम हृदि त्र्यक्षरं विश्वसाक्षि॥ 115 ॥
शुद्धान्ते सीधुपानोन्मदमदनमदोन्मादमत्तालिकालीतालीसन्ताड्यमानोद्भटमुरजरवाडम्बरोल्लासिताङ्गः।
नृत्यन्नग्नो विलज्जश्चलविकटतटैः स्रस्तयै (?) र्लोचनार्धैर्दृष्टः स्त्रीभिः सहासं प्रहसनमुदितः पातु वो वामदेवः॥ 116 ॥
बिभ्रत्पाथःकपर्दे सुरनगरनरीमिन्दुलेखां ललाटे नेत्रान्तः कालवह्निं गरलमपि गले व्याघ्रचर्माङ्गभागे।
पञ्चास्यो वै त्रिनेत्रो वृषभगतिरतिर्वामभागार्धवामः संदिश्यात्सम्पदं वः सह सकलगुणैरद्भुताकार ईशः॥ 117 ॥
राजा राजार्चिताङ्घ्रेरनुपचितकलो यस्य चूडामणित्वं नागा नागात्मजार्धं न भसितधवलं यद्वपुर्भूषयन्ति।
मा रामारागिणी भून्मतिरिति यमिनां येन वोऽदाहि मारः सप्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः॥ 118 ॥
एकं दन्तच्छन्दस्य स्फुरति जयवशादर्धमन्यत्प्रकोपादेकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव।
एकं ध्यानान्निमीलत्यपरमविषहं वीक्षितुं चक्षुरित्थं तुल्यानिच्छापि वामा तनुरवतु स वो यस्य सन्ध्यावसाने॥ 119 ॥