१० अर्धनारीश्वरः

मन्दारमालालुलितालकायै कपालमालाङ्गितशेखराय।
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवायः॥ 161 ॥
एकस्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रम्।
यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री॥ 162 ॥
यस्योपवीतगुण एव फणावृतैकवक्षोरुहः कुचपटीयति1 वामभागे।
तस्मै ममास्तु तमसामवसानसीम्ने चन्द्रार्धमौलिशिरसे महसे नमस्या॥ 163 ॥

स्वेदार्द्रवामकुचमण्डनपत्रभङ्गसंशोषिदक्षिणकराङ्गुलिभस्मरेणुः।
स्त्रीपुंनपुंसकपदव्यतिलङ्घिनी वः शंभोस्तनुः सुखयतु प्रकृतिश्चतुर्थी॥ 164 ॥
संभोगानतिरिच्यमानविभवो यद्विप्रलम्भो रसस्तद्दिव्य मिथुनं परस्परपरिस्यूतं नमस्कुर्महे।
एकस्याः प्रतिबिम्बसंभृतविपर्यासे मुहुर्दर्पणे सव्याङ्गस्थितिकौतुकं शमयति स्वामी स यत्रापरः॥ 165 ॥
आश्लेषाधरबिम्बचुम्बनसुखालापस्मितान्यासतां दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनम्।
इत्थं व्यर्थकृतैकदेहघटनोपन्यासयोरावयोः केयं प्रेमविडम्बनेत्यवतु वः स्मेरोऽर्धनारीश्वरः॥ 166 ॥
स्वच्छन्दैकस्तनश्रीरुभयदलमिलन्मौलिचन्द्रः फणीन्द्रप्राचीना2वीतवाही सुखयतु भगवानर्धनारीश्वरो वः।
यस्यार्धे विश्वदाहव्यसनविसृमरज्योतिरर्धे3 कृपोद्यद्बाष्पं चान्योन्यवेगप्रहतिसिमसिमाकारि चक्षुस्तृतीयम्॥ 167 ॥


  1. कञ्चुकीभवति. ↩︎

  2. यज्ञोपवीतम्. ↩︎

  3. प्रसारी. ↩︎