०९ ताण्डवम्

देवा दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः पातालं व्रज मेदिनि प्रविशति क्षोणीतलं भूधराः।
ब्रह्मन्नुन्नय दूरमात्मभुवनं नाथस्य नो नृत्यतः शम्भोः सङ्कटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः॥ 150 ॥
दोर्दण्डद्वयलीलया चलगिरिभ्राम्यत्तदुच्चैरवपध्वानोद्भीतजगद्भ्रमत्पदभरालोलत्फणाग्र्योरगम्।
भृङ्गापिङ्गजटाटवीपरिसरोद्गङ्गोर्मिमालाचलच्चन्द्रं चारु महेश्वरस्य भवतां निःश्रेयसे ताण्डवम्॥ 151 ॥
सन्ध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमिव्यानृत्यद्भुजदण्डमण्डलभुवो झञ्झानिलाः पान्तु वः।
येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृतामुड्डीनेषु बिडौजसा1 पुनरसौ 2दम्भोलिरालोकितः॥ 152 ॥

यस्यां मौलिमिलत्सुधाम्शुकलया सम्पूर्णबिम्बायितं भालावस्थितलोचनेन सहसैवालातचक्रायितम्।
आवर्तायितमाकपर्दममरस्रोतस्वतीधारया पातु त्रीणि जगन्ति खण्डपरशोः सा ताण्डवाङ्गभ्रमिः॥ 153 ॥
पादस्याविर्भवन्तीमवनतिमवने3 रक्षतः स्वैरपातैः4 संकोचेनैव दोष्णां मुहुरभिनयतः 5सर्वलोकातिगानाम्।
दृष्टिं लक्ष्येषु नोग्रां ज्वलनकणमुचं बध्नतो दाहभूतेरित्या6धारानुरोधात्त्रिपुरविजयिनः पातु वो दुःखनृत्यम्॥ 154 ॥

मूर्धव्याधूयमानध्वनदमधुनीलोलकल्लोलजालोद्भूताम्भः7क्षोददम्भात्प्रसभमभिनभः क्षिप्तनक्षत्रलक्षम्।
ऊर्ध्वन्यस्ताङ्घ्रिदण्डभ्रमिभवरभसोद्यन्नभस्वत्प्रवेशभ्रान्तब्रह्माण्डखण्डं प्रवितरतु शिवं शाम्भव ताण्डवं वः॥ 155 ॥

8शर्वाणीपाणितालैश्चलवलयझणत्कारिभिः श्लाघ्यमानं स्थाने9 सम्भाव्यमानं पुलकितवपुषा शम्भुना प्रेक्षकेण।
खेलत्पिच्छालि10 केकाकलकलकलितं क्रौञ्च11भिद्बर्हियूना हेर12म्बाकाण्ड13बृंहात14रलितमनसस्ताण्डवं त्वा धिनोतु॥ 156 ॥

पायादायासखेदक्षुभितफणिफणारत्न15निर्यत्ननिर्यच्छायामायापतङ्गद्युतिमुदितविय16द्वाहिनीचक्रवाकम्।
अभ्रान्ताभ्रान्तचूडातुहिनकरकरानीकना17लीकनालच्छेदामोदानुधावद्रुधिरमिव खगे धूर्जटेस्ताण्डवं नः॥ 157 ॥

उच्चैरुत्तालखेलद्भुजवनपवनोद्धूतशैलौघपातस्फारोदञ्चत्पयोधिप्रकटितमुकुटस्वर्धुनीसंगमानि।
जीयसुस्ताण्डवानि स्फुटविकटजटाकोटिसङ्घट्टभूरिभ्रश्यन्नक्षत्रचक्रव्यवसितसुमनोवृष्टिपातानि शम्भोः॥ 158 ॥
देवस्त्रैगुण्यभेदात्सृजति वितनुते संहरत्येष लोकानस्यैव व्यापिनीभिस्तनुभिरपि जगद्व्याप्तमष्टाभिरेव।
वन्द्यो नास्येति पश्यन्निव चरणगतः पातु पुष्पाञ्जलिर्वः शम्भोर्नृत्यावतारे वलयमणिफणाफूत्कृतैर्विप्रकीर्णः॥ 159 ॥
चञ्चद्देवेन्द्रकुट्यश्चलितदशदिशाकीर्णकोटीरकोट्यः सङ्गायत्स्वर्वधूट्यः सरभसविनमत्सिद्धगन्धर्वधाट्यः।
विश्लिष्यच्चर्मपट्यो विगलितशतपत्त्रासनोद्यत्करोट्यस्त्रुट्यत्कैलासतट्यस्त्रिपुरविजयिनः पान्तु मामारभट्यः18॥ 160 ॥


  1. इन्द्रेण. ↩︎

  2. वज्रम्. ↩︎

  3. पृथिव्याः. ↩︎

  4. यथेष्टं क्षेपणैः. ↩︎

  5. अतिक्रान्तचतुर्दशभुवनानाम्. ↩︎

  6. आधारस्य पृथिव्यादेरनुरोधादनुसारात्. ↩︎

  7. कणाः. ↩︎

  8. पार्वती. ↩︎

  9. उचितम्. ↩︎

  10. बर्हपङ्क्तयः. ↩︎

  11. षडाननः. ↩︎

  12. अकालेभवम्. ↩︎

  13. गर्जितम्. ↩︎

  14. क्षुब्धचेतसः. मेघनिर्घोषभ्रान्त्येति भावः. ↩︎

  15. अनायासम्. ↩︎

  16. सुरसरित्. ↩︎

  17. बाणः. ↩︎

  18. ताण्डवप्राचण्ड्यम्. ↩︎