संध्याताण्डवडम्बरप्रणयिनो देवस्य चण्डीपतेर्भ्रष्टापीडविशीर्णमुण्डचयनव्यग्रा गणाः पान्तु वः। यैरौत्सुक्यवशीकृतैर्ग्रहगणाद्राहौ गृहीते हठात्सूर्याचन्द्रमसोर्मिथः स्मितवतोर्जातं करास्फालनम्॥ 148 ॥