०६ शिरोमालिका

पित्रोः पादाब्जसेवागतगिरितनया1पुत्र2पत्त्रातिभीतक्षुभ्यद्भूषाभुजंगश्वसनगुरुमरुद्दीप्तनेत्राग्नितापात्।
स्विद्यन्मौलीन्दुखण्डस्रुतबहुलसुधासेकसञ्जातजीवा पूर्वाधीतं पठन्ती ह्यवतु विधिशिरोमालिका शूलिनो वः॥ 147 ॥


  1. षडाननः. ↩︎

  2. वाहनम्. मयूर इत्यर्थः. ↩︎