०३ शशिलेखा

पूर्णनखेन्दुद्विगुणितमञ्जीरा प्रेमशृङ्खला जयति।
हरिशशिलेखा गौरीचरणाङ्गुलिमध्यगुल्फेषु॥ 135 ॥
जयति परिमुषितलक्ष्मा भयादनुपसर्पतेव हरिणेन।
इह केसरिकरजाङ्कुरकुटिला हरमौलिविधुलेखा॥ 136 ॥
श्रीकण्ठस्य 1कपर्दबन्धनपरिश्रान्तोरगग्रामणीसन्दष्टां मुकुटावतम्सकलिकां वन्दे कलामैन्दवीम्।
या बिम्बप्रतिपूरणाय परितो निष्पीड्य 2सन्दम्शिकायन्त्रेणेव ललाटलोचनशिखिज्वालाभिरावर्त्यते॥ 137 ॥


  1. जटाजूटः. ↩︎

  2. कर्तरिका. ↩︎