पूर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतङ्गहनम्।
हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत॥ 123 ॥
इयं चिद्रूपापि प्रकटजडरूपा भगवती यदीयाम्भोबिन्दुर्वितरति च शम्भोरपि पदम्।
पुनाना धुन्वाना निखिलमपि नानाविधमघं जगत्कृत्स्नं पायादनुदिनमपायात्सुरधुनी॥ 124 ॥
चूडाशीतकरस्तनन्धयसुधानीरन्ध्रगन्धस्पृशः1 क्रीडाकङ्कणपन्नगेश्वरफणापीतावशिष्टा मुहुः।
अङ्कासीनगिरीन्द्रजास्तनतटीहारावलीलोलनाः सन्तापं शमयन्तु वो हरजटागङ्गातरङ्गानिलाः॥ 125 ॥
वाते वाति यदङ्गसङ्गमवशाच्छ्रीशंभुरूपप्रदे गौरी रुष्यति तुष्यति त्वहिपतिर्विन्ध्याटवी शोचति।
चन्द्रस्त्रस्यति कुप्यते हरिरपि ब्रह्मा परं शङ्कते सा गङ्गा निखिलं कलङ्कनिचयं भङ्गं तरङ्गैर्नयेत्॥ 126 ॥
शार्ङ्गी ब्रह्मकमण्डलोरधिगतैर्यैः प्रापि तीर्थाङ्घ्रितां यैर्मृत्युं जयतामनायि गरलग्रस्तो जटाजूटगैः।
येभ्योऽशिक्षत माधुरीं मृदुजटाजूटे मठे चन्द्रमास्तानीमानि पयांसि गौतमि तव श्रेयांसि यच्छन्तु नः॥ 127 ॥
यन्नाम्नः प्रथमाक्षरं विजयते भानौ द्वितीयाक्षरं नित्यं नृत्यति सत्कवीन्द्रवदने भूत्वान्त्यवर्णद्वयम्।
रामो रावणमाजघान समरे शम्भोः शिरःशालिनी सा सर्वाक्षरमालिनी भवतु मे भाग्याय भागीरथी॥ 128 ॥
मुक्ताभा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा वह्नौ लाजनिभा दृशो मणिनिभा भोगोत्करे भोगिनाम्।
नृत्यावर्तविवर्तनेरितपयः सम्मूर्छनोच्छालिताः खेलन्तो हरमूर्ध्नि पान्तु भवतो गङ्गापयोबिन्दवः॥ 129 ॥
एषा धर्मपताकिनी तटसुधासेवावसन्नाकिनी शुष्यत्पातकिनी भगीरथतपःसाफल्यहेवाकिनी।
प्रेमारूढपिनाकिनी गिरिसुता सा केकरालो2किनी पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी॥ 130 ॥
स्वच्छन्दोच्छलदच्छक3च्छकुहरच्छा1तेतराम्बु4च्छटा5मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्नि6काह्नाय वः।
भिन्द्या7दुद्यदुदारदर्दुरदरीदीर्घा8दरिद्रद्रुमद्रोहोद्रेकमहोर्मिमेदुरमदा9 मन्दाकिनी मन्दताम्10॥ 131 ॥
शैवालश्रेणिशोभां दधति हरजटावल्लयो हन्त यस्यास्तद्धासोल्लासवेल्लद्वरशफरतुलां यत्र धत्ते कलावान्।
उन्मीलद्भोगिभोगावनिसुभगसिताम्भोजसम्भाविताम्भा गङ्गानङ्गारिसङ्गा महति तव विधौ मङ्गलान्यातनोतु॥ 132 ॥
दृष्टाः संकष्टदाहाः श्रवणपथगताः पुण्यपुञ्जावगाहाः स्पृष्टाः संसारपाथोनिधिपतितधरोद्धारधुर्या वराहाः।
पीतास्तापोपशान्तिप्रजननपटवस्ते सुधावारिवाहाः कल्याणं कल्पयन्तां किलकलुषहरा विष्णुपद्याः प्रवाहाः॥ 133 ॥
तावत्कर्णाध्वयाता जनघनकलुषाधूनने गन्धवाहा दृष्टाः किं हव्यवाहाः सकृदघदहने सर्वतौ पुण्यवाहाः।
स्पष्टाः संसारहाहारवकटुकमहाम्भोधिमग्ने वराहाः पीताः पीयूषधाराधिकतरमधुराः पान्तु गोदोदवाहाः॥ 134 ॥