स धूर्जटिजटाजूटो जायतां विजयाय वः।
यत्रैकपलितभ्रान्तिं1 करोत्यद्यापि जाह्नवी॥ 120 ॥
चूडा2पीडकपालसङ्कुलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः।
पान्तु त्वामकठोरकेतकशिखासन्दिग्धमुग्धेन्दवो भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटा जटाः॥ 121 ॥
गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिश्वारत्नैः कोरकिताः सितांशुकलया स्मेरैकपुष्पश्रियः।
आनन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैर्मिलद्दोहदा नाल्पं कल्पलयाः फलं ददतु वोऽभिष्टं जटा धूर्जटेः॥ 122 ॥