धातुश्चतुर्मुखीकण्ठशृङ्गाटकविहारिणीम्1।
नित्यं प्रगल्भवाचालामुपतिष्ठे सरस्वतीम्॥ 1 ॥
सूक्ष्माय शुचये तस्मै नमो वाक्तत्त्वतन्तवे।
विचित्रो यस्य विन्यासो विदधाति जगत्पटम्॥ 2 ॥
तद्दिव्यमव्ययं धाम सारस्वतमुपास्महे।
यत्प्रसादात्प्रलीयन्ते मोहान्धतमसश्छटाः2॥ 3 ॥
पातु वो निकषग्रावा3 मतिहेम्नः सरस्वती।
प्राज्ञेतरपरिच्छेदं4 वचसैव करोति या॥ 4 ॥
शारदा शारदाम्भोजवदना वदनाम्बुजे।
सर्वदा5 सर्वदास्माकं सन्निधिं सन्निधिं6 क्रियात्॥ 5 ॥
करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः।
पश्यन्ति सूक्ष्मतयः7 सा जयति सरस्वती देवी॥ 6 ॥
शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम्।
करुणामसृणैः8 कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम्॥ 7 ॥
आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम्।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वाम्॥ 8 ॥
वचांसि वाचस्पतिमत्सरेण साराणि लब्धुं ग्रहमण्डलीव।
मुक्ताक्षसूत्रत्वमुपैति यस्याः सा सप्रसादास्तु सरस्वती वः॥ 9 ॥
ज्योतिस्तमोहरमलोचनगोचरं तज्जिह्वादुरासदरसं मधुनः प्रवाहम्।
दूरे त्वचः पुलकबन्धि परं प्रपद्ये सारस्वतं किमपि कामदुघं रहस्यम्॥ 10 ॥
तव करकमलस्थां 9स्फाटिकीम10क्षमालां नखकिरणविभिर्न्नां11 दाडिमीबीजबुद्ध्या।
12प्रतिकलमनुकर्षन्येन 13कीरो निषिद्धः स भवतु मम भूत्यै14 वाणि ते मन्दहासः॥ 11 ॥
15तमोगणविनाशिनी सकलकालमुद्द्योतिनी धरातलविहारिणी 16जडसमाजविद्वेषिणी।
17कलानिधिसहायिनी लसदलोलसौदामिनी मदन्तरवलम्बिनी भवतु कापि 18कादम्बिनी॥ 12 ॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥ 13 ॥
-
चतुष्पथम्. ↩︎
-
समूहः. ↩︎
-
स्वर्णादिपरीक्षणशिला. ↩︎
-
पण्डितमूर्खयोर्भेदम्. ↩︎
-
सर्वदात्री. ↩︎
-
उत्तमनिधिम्. ↩︎
-
कुशाग्रबुद्धयः. ↩︎
-
स्निग्धैः. ↩︎
-
स्फटिकमयीम्. ↩︎
-
जपमालाम्. ↩︎
-
मिश्राम्. ↩︎
-
प्रतिक्षणम्. ↩︎
-
शुकः. ↩︎
-
समृद्ध्यै. ↩︎
-
अज्ञानम्; [पक्षे] अन्धकारः. ↩︎
-
मन्दबुद्धिः; (पक्षे डलयोः सावर्ण्यात् जलम्.) ↩︎
-
विद्वज्जनः, [पक्षे] चन्द्रः. ↩︎
-
सरस्वती; [पक्षे] मेघमाला. ↩︎