01 परब्रह्म

अथ स्वस्थाय देवाय
नित्याय हत-पाप्मने1
त्यक्त-क्रम-विभागाय
चैतन्य-ज्योतिषे नमः॥ 1 ॥

दिक्-कालाद्य्-अनवच्छिन्नानन्त-चिन्-मात्र-मूर्तये2
स्वानुभूत्य्-एक-मानाय3 नमः शान्ताय तेजसे॥ 2 ॥

अनन्तनामधेयाय सर्वाकारविधायिने।
समस्तमन्त्रवाच्याय विश्वैकपतये नमः॥ 3 ॥
कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम्।
भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः॥ 4 ॥
नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने।
त्रिगुणाष्टगुणानन्तगुणनिर्गुणमूर्तये॥ 5 ॥
यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः।
योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते॥ 6 ॥
नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये।
अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये॥ 7 ॥
चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे।
दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः॥ 8 ॥
भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य।
ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै॥ 9 ॥
नित्यं निरावृति निजानुभवैकमानमानन्दधाम जगदङ्कुरबीजमेकम्।
दिग्देशकालकलनादिसमस्तहस्तमर्दासहं दिशतु शर्म महन्महो वः॥ 10 ॥
लोकत्रयस्तितिलयोदयकेलिकारः कार्येण यो हरिहरद्रुहिणत्वमेति।
देवः स विश्वजनवाङ्मनसातिवृत्तशक्तिः शिवं दिशतु शश्वदनश्वरं वः॥ 11 ॥
सर्वः किलायमवशः पुरुषाणुकर्मकायादिकारणगणो यदनुग्रहणे।
विश्वप्रपञ्चारचनाचतुरत्वमेति स त्रायतां त्रिभुवनैकमहेश्वरो वः॥ 12 ॥
मध्याह्नार्कमरीचिकास्विव4 पयःपूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति1
यत्तत्त्वं विदुषां निमीलति5 पुनः 2स्रग्भोगिभोगोपमं 3सान्द्रानन्दमुपास्महे तदमलं 4स्वात्मावबोधं 6महः॥ 13 ॥

यस्माद्विश्वमुदेति यत्र रमते यस्मिन्पुनर्लीयते भासा यस्य जगद्विभाति सहजानन्दोज्ज्वलं यन्महः।
शान्तं शाश्वतमक्रियं7 यमपुनर्भावाय8 भूतेश्वरं द्वैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पूरुषम्॥ 14 ॥

यः सृष्टिस्थितिसंहृतीर्वितनुते ब्रह्मादिमूर्तित्रिकैर्यस्याधीनतया स्थितानि सदसत्कर्माण्यपि प्राणिनाम्।
नित्येच्छाकृतिबुद्धिमानथ परो जीवात्परात्मा स्वयं सोऽयं वो विदधातु पूर्णमचिराच्चेतोगतं यद्भवेत्॥ 15 ॥
शक्यं यन्न विशेषतो निगदितुं प्रेम्णैव यच्चिन्तितं मृद्वङ्गीवदनेन्दुमण्डलमिव स्वान्ते विधत्ते मुदम्।9 यन्मुग्धानयनान्तचेष्टितमिवाध्यक्षेऽपि10 नो लक्षितं तत्तेजो विनयादमन्दहृदयानन्दाय11 वन्दामहे॥ 16 ॥

विष्णुर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोऽथवा भानुर्वा शशलक्षणोऽथ भगवान्बुद्धोऽथ सिद्धोऽथवा।
रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो यः सर्वैः सह सस्स्कृतो गुणगणैस्तस्मै नमः सर्वदा॥ 17 ॥
विश्वेशो वः स पायात्त्रिगुणसचिवतां12 योऽवलम्ब्यानुवारं13 विश्वद्रीचीनसृष्टिस्थितिविलयमजः14 स्वेच्छया निर्मिमीते।
यस्येयत्तामतीत्य15 प्रभवति महिमा कोऽपि लोकव्यतीतस्त्यक्तो यश्चक्षुराद्यैरपि निपुणतमैर्वीक्षणादिक्रियासु॥ 18 ॥

ब्रह्मा दक्षः कुबेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः शैला नद्यः समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः।
द्वीपा नक्षत्रतारारविवसुमुनयो व्योम भूरश्चिनौ च सल्लीना यस्य सर्वे वपुषि स भगवान्पातु वो विश्वरूपः॥ 19 ॥


  1. नाशित-किल्बिषाय. ↩︎ ↩︎

  2. अविषयीकृता. ↩︎ ↩︎

  3. प्रमाणम्. ↩︎ ↩︎

  4. आकाशे दृश्यमानगलज्जलायमानरश्मिसमूहः मृगतृष्णेति यावत्. ↩︎ ↩︎

  5. विधिः. ↩︎

  6. तेजः. ↩︎

  7. निश्चलम्. ↩︎

  8. पुनरुत्पत्त्यभावाय. ↩︎

  9. आनन्दम्. ↩︎

  10. समीपस्थेऽपि. ↩︎

  11. बहु. ↩︎

  12. सत्त्वरजस्तमः-सहावताम्, ↩︎

  13. वारं वारम्. ↩︎

  14. चराचरनिष्ठम्. ↩︎

  15. सीमाम्. ↩︎