धेनुः कामदुघा किम् इच्छति तदा स्थातुं न मध्येगृहं
किं न प्रार्थयति स्थितिं करतले चिन्तामणिः सादरम् ।
उत्कः किं भवनाङ्गणान्तिकम् अलं कर्तुं न कल्पद्रुमः
पुंसः पुण्यवतो यदा किल भवेद् आज्ञाविधेयो विधिः ॥२३७१॥
कस्यचित् ।
किम् अस्मान् विद्वेक्षि क्षपितबहुदोषव्यतिकरान्
गुणान् वैधेयानां श्रियम् उदयिनीं वीक्ष्य धनिनाम् ।
परिच्छेदः शौचं विनयपरता चेन्द्रियजयो
विवेकोतः कृतं न खलु वयम् अर्थप्रतिमुखः ॥२३७२॥
छित्तपस्य ।
उत्थायोत्थाय पापेष्व् अभिरमति मतिर् मन्दबुद्धेर् यदा ते
नैवोद्वेगो न शान्तिर् न च भवति घृणा कुर्वतः कर्म निन्द्यम् ।
तत् किं नैव प्रभाते ज्वलदनलसमा रौरवी नाम रौद्री
तीक्ष्णायःकीलचक्रक्रकचपटुरवा राजधानी यमस्य ॥२३७३॥
श्रीमत्पुरुषोत्तमदेवस्य ।
शैलैर् बन्धयति स्म वानरहृतैर् वाल्मीकिर् अम्भोनिधिं
व्यासः पार्थशरैस् तथापि न तयोर् अत्युक्तिर् उद्भाव्यते ।
वाग् अर्थौ च तुलाधृताव् इव तथाप्य् अस्मत्प्रबन्धानयं
लोको दूषयितुं प्रसारितमुखस् तुभ्यं प्रतिष्ठे नमः ॥२३७४॥
धर्मकीर्तेः । (सु।र। १७२६)
प्रासादाः शिखरस्खलज्जलधराः खातानि वारां निधि
स्पर्धावन्त्य् उपयान्ति भूमिसमतां कालेन राज्ञाम् अपि ।
क्षुद्रस्यापि कवेः सदर्थरचनाकीर्तिस् तु या वाङ्मयी
नादृष्ट्वा युगविप्लवं पुनर् असौ प्रायः परिक्षीयते ॥२३७५॥
पुरुषोत्तमपादानाम् ।