थूथूकृत्य वमद्भिर् अध्वगजनैर् अप्राप्तकण्ठं पयः
शुष्यत्तालुगलैर् विरुत्त्य लवणोदन्वानुपालभ्यते ।
केन क्षारखने वृथैव भवतो नामानृतं निर्मितं
पाथोधिर् जलधिः पयोधिर् उदधिर् वारां निधिर् वारिधिः ॥२३६६॥
विद्यायाः ।
अये केयं धन्या धवलगृहवातायनगता
तुलाकोटिक्वाणैर् विषमविशिखं जागरयति ।
पुरा या प्राणेशे गतवति कृता पुष्पधनुषा
शरासारै रात्रिन्दिवम् अकृपम् उज्जागरकृशा ॥२३६७॥
कस्यचित् । (सू।मु। ४९।११)
हरशिरसि शिरांसि यानि रेजुः
शिव शिव तानि लुठन्ति गृध्रपादाः ।
अयि खलु विषमः पुरा कृतानां
विलससि जन्तुषु कर्मणां विपाकः ॥२३६८॥
कस्यचित् ।
उपरि विधृतशारिप्रौढधन्विप्रसाराद्
इह पयसि नदीनां गाहितुं नैव शक्ताः ।
तटनिकटनिरूढाः प्रस्थितौ यस्य चण्डाः
सरलितकरदण्डाः कुम्भिनोऽम्भः पिबन्ति ॥२३६९॥
गङ्गाधरनाथस्य ।
सीताया हृदये शिरीषकुसुमप्राये पफालोच्चकैः
पौलस्त्यस्य सदैव कुण्ठकुलिशे वज्राधिके वक्षसि ।
आपुङ्खं निममज्ज तत् कथम् अहो नैतद् विजानीमहे
कः शाखी सखि यस्य पुष्पम् अभवत् पुष्पायुधस्यायुधम् ॥२३७०॥