अर्धप्लुष्टं बहुभ्यः शवपिशितम् उपाहृत्य हृष्टश् चिताभ्यो
जातग्रासातिरेकः स्फुटतरधमनीनद्धशुष्कार्द्रकायः ।
प्रेतः सन्तर्ज्य दृष्ट्या कुटिलपरुषया मज्जनिष्कर्षशुष्कैर्
आहन्त्याहारलुब्धान् मुहुर् अभिपततो जम्बुकान् अस्थिखण्डैः ॥२३६१॥
जयादित्यस्य ।
शिरां प्रेतः कश्चिद् दशति दशनाग्रेण सरसां
लिलिक्षुर् मस्तिष्कं कलयति च मूर्धानम् इतरः ।
करं धूत्वा धूत्वा ज्वलदनलदीप्ताङ्गुलिशिखं
चितास्थालीपक्वं हरति कुणपक्रव्यम् अपरः ॥२३६२॥
नीलाम्बरस्य ।
नृत्यद्वेतालमालावलयितविकटप्रान्तम् उड्डामरोग्र
प्रक्रीडड्डाकिनीकं प्रतिपदम् उदयत्पूतनोत्फाललीलम् ।
उत्खेलत्कोलकेलीकवलितविघसग्राससंसक्तगृध्रा
कृष्टन्न् अस्थिप्रमोदं न जनयति कथं दृश्यमानं श्मशानम् ॥२३६३॥
उमापतिधरस्य ।
उद्बुद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु
प्रोद्ग्रीवं पश्य पादद्वयनमितभुवः श्रेणयः फेरवाणाम् ।
उल्कालोकैः स्फुरद्भिर्निजवदनदरीसर्पिभिर् वीक्षितेभ्यश्
च्योतत्सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति ॥२३६४॥
पाणिनेः । (सु।र। १५२९)
चञ्चत्पक्षाभिधातज्वलितहुतवहप्रौढधाम्नश् चितायाः
क्रोडाद् व्याकृष्टमूर्तेर् अहम् अहमिकया चण्डचञ्चुग्रहेण ।
सद्यस् तप्तं शवस्य ज्वलद् इव पिशितं भूरि जग्ध्वार्धदग्धं
पश्यान्तः प्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्रवृद्धः ॥२३६५॥
तस्यैव । (सू।मु। ९४।६, सु।र। १५२८)