घातयति महापुरुषान् समम् एव बहून् अनादरेणैव ।
परिवर्तमान एकः कालः शैलानिवानन्तः ॥२३५६॥
बाणस्य । (ह्च् ५।२)
व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्य् आपदं
बध्यन्ते निपुणैर् अगाधसलिलान् मीनाः समुद्राद् अपि ।
दुर्णीतं किम् इहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूराद् अपि ॥२३५७॥
वसुभागस्य ।
भीमेनात्र विजृम्भितं धनुर् इह द्रोणेन मुक्तं शुचा
कर्णस्यात्र हया हता रथपतिर् भीष्मोऽत्र योद्धुं स्थितः ।
विश्वं रूपम् इहार्जुनस्य हरिणा सन्दर्शितं कौतुकाद्
उद्देशास् त इमे न ते सुकृतिनः कालो हि सर्वङ्कषः ॥२३५८॥
हलायुधस्य ।
दिवसरजनीकूलच्छेदैः पतद्भिर् अनारतं
वहति निकटे कालस्रोतः समस्तभयावहम् ।
इह हि पततो नास्त्य् आलम्बो न चापि निवर्तनं
तद् अपि भवतां मोहः कोऽयं यद् एवम् अनाकुलः ॥२३५९॥
कस्यचित् । (स्स् ३।२)
दयालुर् नो बाले न च सुजनगोष्ठीषु रमते
विलासैर् नारीणां न हि भवति सम्भावितरसः ।
अनुद्विग्नः कालः कवलयति कृत्स्नं जगद् अहो
निसर्गक्रूराणां न खलु करुणार्द्रः परिचयः ॥२३६०॥
योगेश्वरस्य ।