नैकं जन्म तवैव वत्स न परं तुल्या च कर्मस्थितिर्
भोक्तव्येषु सुखेषु हृष्यसि मुधा दुःखेषु किं ताम्यसि ।
भ्रातः स्थैर्यम् उपेहि नन्व् इह भवान् संसारदीर्घाध्वगः
सुच्छायास् तरवः क्वचिन् मरुभुवः क्वापि प्रचण्डातपाः ॥२३३६॥
दशरथस्य ।
नन्व् आत्मन्य् अवधीयतां गृहरसाद् वैराग्यम् आधीयतां
चेतः सम्प्रति दम्यतां सुरसरित्तीरे सदा स्थीयताम् ।
भिक्षार्थं व्यवसीयतां समुचितं सत् कर्म सञ्चियतां
कृष्णश् चेतसि धीयतां परतरं ब्रह्मानुसन्धीयताम् ॥२३३७॥
भर्तृहरेः । (स्स् ३।११)
ते तावत् कृतिनः परार्थघटकाः स्वार्थस्य बाधेन ये
सामान्यास् तु परार्थम् उद्यमकृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं यैः स्वार्थतो हन्यते
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥२३३८॥
तस्यैव ।
विवेकः किं सोऽपि स्वरसवलिता यत्र न कृपा
स किं योगो यस्मिन् भवति न परानुग्रहरसः ।
स किं धर्मो यत्र स्फुरति न परद्रोहविरतिः
श्रुतं तत् किं साक्षाद् उपशमपदं यन् न नयति ॥२३३९॥
कस्यचित् । (सु।र। १६२९, स्स् २।२५)
कृमिकुलचित्तं लालाक्लिन्नं विगन्धिजुगुप्सितं
निरुपमरसं प्रीत्या खादन् नरास्थि निरामिषम् ।
सुरपतिम् अपि श्वा पार्श्वस्थं विलोक्य न शङ्कते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥२३४०॥
शूरस्य (नी।श। ९ (३०); सु।र। १६२८, स्स् २।९)