प्रत्यग्रगोमयविलिप्तवितर्दिकानि
पूर्णाहुतिप्रबलवह्निशिखाशतानि ।
शुश्रूषमाणमृगलोचनकन्यकानि
तान्य् अद्य तापसवनानि मनो हरन्ति ॥२३२६॥
नरसिंहस्य ।
एते नीवारवप्राः पृथुकुसुमसमित्पार्वतः
देवीयं जह्नुपुत्री सिकतिलशयितः शान्तनिःशङ्करङ्कः ।
कान्तारे दर्भदूर्वाचयशुचिनि वचः स्मार्तम् आवर्तयन्ति
ब्रह्माणो दुर्विपाकग्रहगहनतया यामिनीजागरूकाः ॥२३२७॥
मघोः ।
एतानि क्रतुपृष्ठवेदिविलुठद्विप्राणि वातप्रमी
च्छन्नोपान्ततरूणि पश्य दधते पुण्याश्रमाणि श्रियम् ।
यान्य् उत्क्षिप्य मनः पराञ्चति परं नारायणाराधन
श्रद्धामोदितम् एकदैव धनिकद्वारे च दारेषु च ॥२३२८॥
तस्यैव ।
एते पुरः सुरभिकोमलहोमधूम
लेखानिपीतनवपल्लवशोणिमानः ।
पुण्याश्रमाः श्रुतिसमोहितसामगीति
साकूतनिश्चलकुरङ्गकुलाः स्फुरन्ति ॥२३२९॥
श्रीमल्लक्ष्मणसेनस्य ।
शार्दूली स्नेहगर्भं मुकुलितनयनं लेढि शावं हरिण्या
बन्धुप्रीत्या शिखण्डी तिरयति फणिनाम् आतपं कीर्णबर्हः ।
सिंही रक्षत्य् अपत्यं स्वम् इव कलभकं निर्गतायां करिण्यां
मैत्र्या येषां निवासे गहनगिरिदरीशायिनस् ते जयन्ति ॥२३३०॥
चन्द्रयोगिनः । (सू।मु। १०९।४२)