०६५ वनगमनोत्सुकः

अये दिष्ट्या नष्टो मम गृहपिशाचीपरिचयः
परावृत्तं मोहात् स्फुरति च मनाग् ब्रह्मणि मनः ।
विकारोऽप्य् अक्षाणां गलित इव निर्भाति विषयात्
तथापि क्षेत्रज्ञः स्पृहयति वनाय प्रतिमुहुः ॥२३२१॥

भर्तृहरेः ।

रम्यं हर्म्यतलं वसतये श्रव्यं न गीतादि किं
किं वा प्राणसमासम् आगमसुखं नैवाधिकप्रीतये ।
किं तु प्रान्तपतत्पतङ्गपवनम् आलोलदीपाङ्कुर
च्छायाचञ्चलम् आकलय्य सकलं सन्तो वनान्तं गताः ॥२३२२॥

विज्ञातात्मनः । (स्स् २।१५, स्व् ३३२६, शा।प। ४११४, सू।मु। १३१।५१)

आस्ताम् अकण्ठकम् इदं वसुधाधिपत्यं
त्रैलोक्यराज्यम् अपि देव तृणाय मन्ये ।
निःशङ्कसुप्तहरिणीकुलसङ्कुलासु
चेतः परं लुठति शैलवनस्थलीषु ॥२३२३॥

शालवाहस्य । (सु।र। १६०६, स्स् २।१६)

हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः
कुसुमशवलैर् विष्वग्वातैस् तरङ्गितपादपाः ।
मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता
मनसि न मुदं कस्यादध्युः शिवा वनभूतयः ॥२३२४॥

गुणाकरभद्रस्य । (सु।र। १५९५, स्स् २।१७)

कुरङ्गाः कल्याणं प्रतिविटपम् आरोग्यम् अटवि
स्रवन्ति क्षेमं ते पुलिनकुशलं भद्रम् उपलाः ।
निशान्ताद् अस्वन्तात् कथम् अपि च निष्कान्तम् अधुना
मनोऽस्माकं दीर्घाम् अभिलषति युष्मत्परिचितिम् ॥२३२५॥

लक्ष्मीधरस्य । (सु।र। १६२६, स्स् २।१९)