०६४ निःस्पृहः

वासो वल्कलमास्तरः किसलयान्योकस् तरूणां तलं
मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषाशान्तये ।
क्रीडा मुग्धमृगैर् वयांसि सुहृदो नक्तं प्रदीपः शशी
स्वाधीनेऽपि धने तथापि कृपणा याचन्त इत्य् अद्भुतम् ॥२३१६॥

कस्यचित् । (सु।र। १५९८, स्स् २।२०)

नीताः पुण्याग्निगेहे शिशिररजनयः स्तोमसत्रे निदाघं
शीर्णे कुग्रामदेवीपरिसरसदने वासराः प्रावृषेण्याः ।
दृष्टं व्याभुग्नभीमभ्रुकुटि च वदनं सम्पदा गर्वितानां
तत्त्वं तृष्णे कृतार्थीभव कुरु विरतिं मुञ्च नः साधु यामः ॥२३१७॥

योगेश्वरस्य ।

निजं कर्म क्षीणं स खलु विपरीतो हतविधिः
सुकृत्ये वा तत्त्वे भृशम् उपगता यत्ननिचयाः ।
इदानीम् अस्माकं स्फुरदुरुजराजर्जरम् इदं
वपुर् जातं तृष्णे विरम विरमेत्य् अञ्जलिशतम् ॥२३१८॥

गोसोकस्य ।

वयम् इह परितुष्टा वल्कलैस् त्वं च लक्ष्म्या
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥२३१९॥

कृष्णमिश्रस्य । (स्व् ३४७५, शा।प। ३०८, द।रू॥ उन्देर् ४।२, वैस् १७७)

मातर् लक्ष्मि भजस्व कञ्चिद् अपरं मत्काङ्क्षिणां मा स्म भूर्
भोगेभ्यः स्पृहयालवस् तव वशाः का निःस्पृहाणाम् असि ।
सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतैर्
भिक्षासक्तुभिर् एव सम्प्रति वयं काश्यां समीहामहे ॥२३२०॥

लक्ष्मीधरस्य । (स्स् ४।११, सु।र। १६१२)