पूर्वं तावत् कुवलयदृशां लोललोलैर् अपाङ्गैर्
आकर्षद्भिः किम् अपि हृदयं पूजिता यौवनश्रीः ।
सम्प्रत्यन्तर्निहितसदसद्भावलब्धप्रबोध
प्रत्याहारापहृतहृदयो वर्तते कोऽपि भावः ॥२३११॥
कस्यचित् । (स्स् ४।१६)
इयं बाला मां प्रत्य् अनवरतम् इन्दीवरदल
प्रभाचौरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया ।
गतो मोहोऽस्माकं स्मरसमरबाणव्यतिकर
ज्वरज्वाला शान्ता तद् अपि न वराकी विरमति ॥२३१२॥
ज्ञानशिवस्य । (सु।र। १६२०)
यद् आसीद् अज्ञानं स्मरतिमिरसंस्कारजनितं
तदा दृष्टं नारीमयम् इदम् अशेषं जगद् अपि ।
इदानीम् अस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते ॥२३१३॥
कस्यचित् । (स्स् ४।१४, स।क।आ। ५।११५; सु।र। १६११)
किम् अस्मान् वामाक्षि स्मरविजययात्राभ्युदयिकैर्
वृथा शान्तान् लाज्जैर् इव हसितलेशैः स्नपयसि ।
इदानीं गोलोम्ना शुचिनि तनुकालावुजठरे
पतद्भैक्ष्याहारे वलति हि परं लाञ्छिनि मनः ॥२३१४॥
जलोकस्य ।
गतः कालो यत्र प्रणयिनि मयि प्रेमकुटिलः
कटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति ।
इदानीम् अस्माकं जरठकमठीपृष्ठकठिना
मोनोवृत्तिस् तत् किं व्यसनिनि मुधैव क्षपयसि ॥२३१५॥
वल्लणस्य । (स्स् ४।१३, सू।मु। १३१।३३, सु।र। १५९९)