सूक्तिं कर्णसुधां व्यनक्तु सुजनस् तस्मै न मोदामहे
ब्रूतां वाचम् असूयको विषमुचं तस्मै न खिद्यामहे ।
या यस्य प्रकृतिः स तां वितनुतां किं नस् तया चिन्तया
कुर्मस् तत् खलु कर्म जन्मनिगडच्छेदाय यज् जायते ॥२३०६॥
भर्तृहरेः । (स्स् १।२२)
यदासौ दुर्वारः प्रसरति मदश् चित्तकरिणस्
तदा तस्योद्दामप्रसररसरूढैर् व्यवसितैः ।
क्व तद्धैर्यालानं क्व च निजकुलाचारनिगडः
क्व सा लज्जारज्जुः क्व विनयकठोराङ्कुशम् अपि ॥२३०७॥
भर्तृहरेः । (स्स् १।२२)
सज्जन्मापि हि निष्फलं श्रुतम् अपि व्यर्थं गुणाः किं कृते
हा धिक् कष्टम् अनर्थकं गतम् इदं निःशेषम् अस्मद्वयः ।
मार्गः कोऽपि निरत्ययं न वहति व्याघातबद्धग्रहो
धर्मार्थादिचतुष्पथे निवसति क्रूरो विधिर् गौल्मिकः ॥२३०८॥
महाव्रतस्य ।
महाशय्या भूमिर् मसृणम् उपधानं भुजलता
वितानं चाकाशं व्यजनम् अनुकूलोऽयम् अनिलः ।
स्फुरद्दीपश् चन्द्रः सुरभिवनितासङ्गमुदितः
सुखं शान्तः शेते ननु च भवभीतो नृप इव ॥२३०९॥
भवभीतस्य । (स्स् ४।८)
अवश्यं यातारश् चिरतरम् उषित्वापि विषया
वियोगे को भेदस् त्यजति न जनो यत् स्वम् अमून् ।
व्रजन्तः स्वातन्त्र्याद् अतुलपरितापाय मनसः
स्वयं त्यक्ता ह्य् एते शमसुखम् अनन्तं विदधति ॥२३१०॥
हरेः । (स्स् ३।३, स्व् ३३८६, सु।र। १६१७, वैस् १५७)