कदा भिक्षाभक्ष्यैः करगलितगङ्गाम्बुतरलैः
शरीरं मे स्थास्यत्य् उपरतसमस्तेन्द्रियसुखम् ।
कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगाः
पतिष्यन्ति स्थाणुभ्रमहतधियः स्कन्धशिरसि ॥२२९६॥
भर्तृहरेः । (स्स् ४।१८)
गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काः
सम्प्राप्स्यन्ते जरठहरिणा गात्रकण्डूविनोदम् ॥२२९७॥
कृष्णस्य । (स्स् ४।१७)
रथ्यातश्चरतस् तथा धृतजरत्कन्थालवस्याध्वगैः
सत्रासं च सकौतुकं च सकृपं दृष्टस्य तैर् नागरैः ।
निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे
निःशङ्कं करटः कदा करपुटीभिक्षां विलुण्ठिष्यति ॥२२९८॥
वल्लणस्य । (स्स् ४।१९, सा।द। उन्देर् ३।२२८)
कदा वाराणस्याम् अमरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
प्रसीदेति क्रोशन् निमिषम् इव नेष्यामि दिवसान् ॥२२९९॥
विश्वेश्वरस्य । (कुवल्। १८३)
अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः
क्वचित् पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥२३००॥
मुञ्जस्य । (स्व् ३४१३, शा।प। ४१०२)