०५९ कारुणिकः

निष्कञ्चनत्वाद् विधुरस्य साधोर्
अभ्यर्थितस्यार्थिजनस्य किञ्चित् ।
नास्तीति वर्णा मनसि भ्रमन्तो
निर्गन्तुम् इच्छन्त्य् असुभिः सहैव ॥२२९१॥

मङ्गलस्य ।

तां सम्पदो विपद एव न याः समग्रम्
उत्तारयन्ति जगद् आविलम् आर्तिपङ्कात् ।
तल्लौहम् एव हृदयं यद् अशक्तम् आर्ते
स्वीयार्तिभावयति न स्फुटितेन शुद्धिम् ॥२२९२॥

मालोकस्य ।

एते वयं तनुधनाः कृपणेयम् उर्वी
दीनाः शतं मृदु च विस्तरयन्ति वाचः ।
तद् भ्रातरः शकुनिफेरवसारमेया
ढौकध्वम् एतद् अहह स्फुटतु क्षणेन ॥२२९३॥

तस्यैव ।

यत्र प्राणबलेन यत्र पिशितैर् यत्र त्वचा केवलं
यात्राम् अर्थिजनोचिताम् उपगतः श्लाघ्यः स कालो गतः ।
कुर्मः किं धनम् अन्यद् अस्ति न किम् अप्य् अस्माकम् अस्मात् परं
वाधिर्यं कृतम् अत्र कर्णकुहरे दूरेऽस्तु वागर्थिनः ॥२२९४॥

परशुरामस्य ।

मुदा यत्र प्राणास् तृणम् इव परार्थव्यसनिनस्
त्यजन्तो लज्जन्ते कियद् इति धिया तद् युगम् अगान् ।
तृणं प्राणप्रायं त्यजति न जनो यत्र समये
वयं जातास् तत्रेत्य् अहह कृपणं जीवितम् इदम् ॥२२९५॥

देवबोधस्य ।