प्रेम्णा पुरा प्रणिहितं मयि चक्षुर् ईषद्
उल्लासितार्धकुचया मितमध्यया यत् ।
सम्प्रत्य् अतिस्तिमितवक्त्रम् इवाङ्गलग्नम्
एतज् जिहासुर् अपि हातुम् अनीश्वरेण ॥२२८१॥
कस्यचित् । (सु।र। १६३१)
भिक्षाशनं भवनम् आयतनैकदेशः
शय्या मही परिजनो निजदेहभारः ।
वासः सुजीर्णपटखण्डनिबद्धकन्था
हा हा तथापि विषयान् न जहाति चेतः ॥२२८२॥
सिल्हणस्य । (सु।र। १६३३)
मधुरम् अशनं सूक्ष्मं वासो विभूषणम् उज्ज्वलं
तरुणतरवः क्रीडारामाः सुधाशुचयो गृहाः ।
तद् इदम् अखिलं त्यक्तुं शक्यं भवत्य् अपि देहिनां
प्रणयसरसा येऽमी दारास् त एव हि दुस्त्यजाः ॥२२८३॥
कस्यचित् ।
गङ्गाधौतशिलातले फलभरच्छिन्नार्धकूलद्रुमे
सिद्धाध्यासितकन्दरे हिमवति स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं मान्यं मनस्वी जनो
यद् वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥२२८४॥
कस्यचित् । (स्व्। २२४४)
संसारेऽस्मिन्न् असारे कुनृपतिभवनद्वारसेवाकलङ्क
व्यासङ्गव्यस्तधैर्यं कथम् अमलधियो मानसं संविदध्युः ।
यद्य् एताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युर् अम्भोजनेत्राः
प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस् तरुण्यः ॥२२८५॥
कस्यचित् (ÇऋÇ ३१ (९७); स्व्। २२४५)