०५३ अनुशयः

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः
सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः ।
ध्यातं वित्तम् अहर्निशं न च पुनर् विष्णोः पदं शाश्वतं
तत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चितम् ॥२२६१॥

भर्तृहरेः । (स्स् १।९: स्व् ३१७८, शा।प। ४१५३, सु।र। १६३२)

नाथे श्रीपुरुषोत्तमे त्रिजगताम् एकाधिपे चेतसा
सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति ।
यं कञ्चित् पुरुषाधमं कतिपयग्रामेशम् अल्पार्थदं
सेवायै मृगयामहे नरम् अहो मूढा वराका वयम् ॥२२६२॥

तस्यैव । (स्स् १।११)

उषस्य् एव भ्रान्तं हतजठरहेतोस् तत इतः
स्वयं च स्वं बिभ्रद् विचरति कुटुम्बं दिशि दिशि ।
बतास्माभिः काकैर् इव कवलमात्रैकमुदितैर्
न चायुर्दुर्गत्योर् अवधिर् इह लब्धः कथम् अपि ॥२२६३॥

वेशोकस्य ।

कौशल्या ननु रोधना जनकभूर् दूरीकृता किं तु न
प्राप्ता पञ्चवटी न वानरपतेर् आसादितं सौहृदम् ।
सामर्षेण न वारिराशिर् अचिराद् उल्लङ्घितः केवलं
काकुत्स्थेन मया दशाननतिरस्कारास्पदीभूयते ॥२२६४॥

हरेः ।

जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदम् उदश्रु प्रलपितम् ।
कृता लङ्काभर्तुर् वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्व् अधिगता ॥२२६५॥

शूलपाणेः । (स्व् ३२६४, सा।द। उन्देर् ४।१७, सू।मु। १२७।५, सु।र। १४७२)