एकगर्भोषिताः स्निग्धा मूर्ध्ना सत्कृत्य धारिताः ।
केशा अपि विरज्यन्ते जरया किम् उताङ्गनाः ॥२२५१॥
श्रीव्यासपादानाम् । (सु।र। १५२५)
केशाः पाकम् उपागत्âः शिथिलताम् अङ्गेऽप्य् अनङ्गो गतः
सर्वाङ्गं बलिवेष्टितं प्रियतमा सभ्यं जनत्वं गता ।
ये वान्ये गुणशालिनोऽपि सुहृदस् ते चापि याता दिवं
तन् मां मुञ्च घनागमं व्रज वनं चेतः कुतः स्थीयते ॥
तरणिकस्य ।
केशाः काशनिभाः कपालफलके त्वग्भिस् तरङ्गायितं
काचेनोचिततारकेण खचिते पर्यश्रुणी लोचने ।
अङ्गानाम् अवसादितापि च गिरां कम्पस् तथाप्य् एष मे
मोहः स्नेहमयो न मुञ्चति मनः कस्मै समावेद्यताम् ॥२२५३॥
सुव्रतस्य ।
शौर्याभिमानवनदावशिखे सुबद्ध
प्रस्थानवृत्तिमतिविभ्रममूलबन्धो ।
मृत्योः पुरःसरबलध्वजवैजयन्ति
मातर् जरे सततम् अस्तु नम भवत्यै ॥२२५४॥
धर्मपालस्य ।
दिग्विभ्रमं दशनखण्डनम् अङ्गभङ्गं
केशग्रहं रतिविधौ मदनादरं च ।
श्वासप्रकम्पजडभावसुघूर्णितानि
धत्ते जरा प्रणयिनीव मयोपगूढा ॥२२५५॥
कस्यचित् ।