०५० तद्गृहं

चलत्काष्ठं गलत्कुड्यम् उत्तानतृणसञ्चयम् ।
गण्डूपदार्थिमण्डूककीर्णं जीर्णं गृहं मम ॥२२४६॥

कस्यचित् ।

हस्तप्राप्यतृणोज्झिताः प्रतिपयोवृत्तिस्खलद्भित्तयो
दूरालम्बितदारुदन्तुरमुखाः पर्यन्तवल्लीवृत्ताः ।
वस्त्राभावविलीनसत्रपवधूर्दत्तार्गला निर्गिरस्
त्यजन्ते चिरशून्यविभ्रमभृतो भिक्षाचरैर् मृद्गृहाः ॥२२४७॥

कस्यचित् ।

पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं नाथ ।
विलसत्करेणुगहनं सम्प्रति समम् आवयोः सदनम् ॥२२४८॥

कस्यचित् । (सु।र। १६४४, साह्।द्। ७।२०, १०।१३)

धूमेन रिक्तम् अपि निर्भरबाष्पकारि
दूरीकृतानलम् अपि प्रतिपन्नतापम् ।
दैन्यातिशून्यम् अपि भूषितबन्धुवर्गम्
आश्चर्यम् एव खलु खेदकरं गृहं नः ॥२२४९॥

जलचन्द्रस्य ।

उत्सन्नच्छदिर् उच्छ्वसद्वृति गलद्भित्ति स्खलन्मण्डलि
भ्राम्यत्कुण्डलि हिण्डदाखु खुरलिप्रक्रीडिभेकावलि ।
पञ्चच्चर्मचटौघपक्षतिपुटप्रारब्धभाम्भाङ्कृति
श्रीमत्सेनकुलावतंस भवतः शत्रोर् इवास्मद्गृहम् ॥२२५०॥

सोह्नोकस्य ।