अद्याशनं शिशुजनस्य बलेन जातं
श्वो वा कथं नु भवितेति विचिन्तयन्ती ।
इत्य् अश्रुपातमलिनीकृतगण्डदेशा
नेच्छेद् दरिद्रगृहिणी रजनीविरामम् ॥२२४१॥
कस्यचित् । (सु।र। १३११)
यावद् दुःखकुटुम्बिनीकरतलस्पर्शात् समालोकते
तत्तत्क्षुद्रकणादिरक्षणधिया घोरं घने वर्षति ।
तावज् जीर्णकुटीरकोटरविशत्सौदामिनीदीपितं
दृष्ट्वा तूलकजालम् आबिलजलाकीर्णं मुहुर् मूर्च्छति ॥२२४२॥
योगेश्वरस्य ।
कुम्भीसञ्चिततण्डुलाः प्रतिदिनं नीताः क्षयं मूषिकैर्
वास्तुष्व् एव पिशङ्गितोदरतलाः शीर्यन्ति वार्ताकवः ।
जीर्णं जालकमारनालपिठरीगर्भे च काकारवं
दीनायाः पथिकस्त्रियाः प्रियतमप्रत्यागमाकाङ्क्षया ॥२२४३॥
नीलस्य ।
वैराग्यैकसमुन्नता तनुतनुः शीर्णाम्बरं बिभ्रती
क्षुत्क्षामेक्षणकुक्षिभिश् च शिशुभिर् भोक्तुं समभ्यर्थिता ।
दीना दुःस्थकुटुम्बिनी प्रविगलद्बाष्पाम्बुधौताननाप्य्
एकं तण्डुलमानकं दिनशतं नेतुं समाकाङ्क्षति ॥२२४४॥
वीरस्य ।
सक्तूञ् शोचति सम्प्लुतान् प्रतिकरोत्य् आक्रन्दतो बालकान्
प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति ।
दत्त्वा मूर्ध्नि विशीर्णशूर्पशकलं जीर्णे गृहे व्याकुला
किं तद् यन् न करोति दुःस्थगृहिणी देवे भृशं वर्षति ॥२२४५॥
लङ्गदत्तस्य । (सु।र। १३१२, योगेश्वरस्य; स्व् ३२०१)