०४८ दरिद्रगृही

शीलं शातयति श्रुतं शमयति प्रज्ञां निहन्त्य् आदराद्
दैन्यं दीपयति क्षमां क्षपयति व्रीडाम् अपि व्यस्यति ।
चेतो जर्जरयत्य् अपास्यति धृतिं विसातरयत्य् अर्थितां
पुंसः क्षीणधनस्य किं न कुरुते वैरी कुटुम्बग्रहः ॥२२३६॥

दामोदरस्य ।

उत्तिष्ठ क्षणम् एकम् उद्वह सखे दारिद्र्यभारं गुरुं
श्रान्तस् तावद् अहं चिरान् मरणजं सेवे त्वदीयं सुखम् ।
इत्य् उक्तो धनवर्जितेन विदुषा गत्वा श्मशानं शवो
दारिद्र्यान् मरणं वरं सुखम् इति ज्ञात्वा स तूष्णीं स्थितः ॥२२३७॥

वसुकल्पस्य । (स्व् ३१९५)

क्षुत्क्षामाः शिशवः शवा इव तनुर् मन्दादरो बान्धवो
लिप्ता जर्जरकर्करीजललवैर् नो मां तथा बाधते ।
गेहिन्याः स्फुटितांशुकं घटयितुं कृत्वा सकाकुस्मितं
कुप्यन्ती प्रतिवेशिनी प्रतिमुहुः सूचीं यथा याचिता ॥२२३८॥

कस्यचित् । (सु।र। १३०७)

तस्मिन्न् एव गृहोदरे रसवती तत्रैव सा कण्डनी
तत्रोपस्करणानि तत्र शिशवस् तत्रैव वासः स्वयम् ।
सर्वं सोढवतोऽपि दुःस्थगृहिणः किं ब्रूमहे तां दशाम्
अद्य श्वो विजनिष्यमाणगृहिणी तत्रैव यत् कुन्थति ॥२२३९॥

वैनतेयस्य । (सु।र। १३१०)

आस्तां किं बहुभिः परोपकृतयः संसारसारं फलं
सिद्धं तत् प्रतिकूलवर्तिनि विधौ न स्तोकम् अप्य् अत्र नः ।
एते स्मः किल मानुषा वयम् अपि व्यर्थं व्यपेतायुषो
येषां स्वोदरपूर्तिर् एव हि किम् अप्य् अष्टौ महासिद्धयः ॥२२४०॥

कस्यचित् ।