०४७ सचटुदारिद्र्यम्

अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।
अहम् अपि न तया न तया वद राजन् कस्य दोषोऽयम् ॥२२३१॥

कस्यचित् । (स।क।आ। ४।१९४, स्व् ३१८५, शा।प। ४११)

आ जन्मनः सहजतुल्यविवर्तमान
दौर्गत्यतोऽस्ति परमो न सुहृन्ममान्यः ।
येनात्मनोऽपरिगणय्य विनाशम् आशु
देव त्वदाश्रयणपुण्यधनः कृतोऽस्मि ॥२२३२॥

दङ्कस्य ।

दुर्गतिर् एका वनिता
ममापि पितुर् इयं पितामहस्यापि ।
तत् कुरु नाथ यथायं
जनपरिवादः प्रशान्तिम् अभ्येति ॥२२३३॥

कस्यचित् ।

दारिद्र्यगृध्रपरिभुक्तसमस्तमांसं
स्नायूपरुद्धसकलास्थिचयावशेषम् ।
पीयूषवृष्टिम् इव नाथ निधेहि दृष्टिं
कङ्कालजालम् इदम् अङ्कुरम् आतनोति ॥२२३४॥

कस्यचित् ।

दारिद्र्यं नृपतिः स नो निजपतिर् यस्य प्रसादाद् अभूद्
याच्ञा जीवितम् अंशुकं दश दिशः सद्मानि देवालयाः ।
मद्विद्वेषिणि लब्धसन्निधिर् इति त्वय्य् आश्रये कुप्यता
मद्वृत्त्यैव पुरस्कृतास् त्वदरयस् तेनाधुना का गतिः ॥२२३५॥

वित्तपालस्य ।