०४५ क्षुद्रोदयदुःखितः

सुखं जीवन्ति जातान्धाः पर्वताः सरितोऽपि च ।
क्षुद्राभ्युदयसाक्षिभ्याम् अक्षिभ्यां हा हता वयम् ॥२२२१॥

कस्यचित् ।

धन्याः खलु नीचानां तृष्णातापार्तिविधुरमनसापि ।
भ्रुकुटितरङ्गकुटिलां न दृष्टिसरितं विगाहन्ते ॥२२२२॥

शङ्करधरस्य ।

अलङ्घ्यं सर्वेषाम् इह खलु फलं कर्मजनितं
विपत् कर्म प्रैष्या व्यथयति न जातासि हृदयम् ।
यदज्ञाः कुर्वन्ति प्रसभम् उपहासं धनमदाद्
इदं त्व् अन्तर्गाढं परमपरितापं जनयति ॥२२२३॥

धर्माकरस्य ।

हे लोचनद्वय चलज्जलबुद्बुदाभ
किं न प्रयासि कटकामणिवद् विलीय ।
यद् दैवलब्धवसुमूर्खमुखावलेप
मुद्राम् उदीक्षितुम् अयं तव जन्मलाभः ॥२२२४॥

वाक्कोकस्य ।

विद्यावान् अपि जन्मवान् अपि तथा युक्तोऽपि तैस् तैर् गुणैर्
यन् नाप्नोति मनः समीहितफलं दैवस्य सा वाच्यता ।
एतावत् तु हृदि व्यथां वितनुते यत्प्राक्तनैः कर्मभिर्
लक्ष्मीं प्राप्य जडोऽप्य् असाधुर् अपि च स्वां योग्यतां मन्यते ॥२२२५॥

कस्यचित् । (सु।र। १४८२)