प्रालेयाद् अपि शीतलो हुतवहः पीयूषगर्भाद् अपि
स्वादीयो गरलं भवेद् अपि मृदुर् दम्भोलिर् अम्भोजतः ।
व्याहाराद् अपि सुभ्रुवां खलवचः कर्णद्वयीदोहदं
न त्व् एता दुरधीश्वरस्य कुटिलक्रूराः कटाक्षोर्मयः ॥२२१६॥
शङ्खधरस्य ।
स्नातं मारवरोचिर् अम्भसि कृतः स्नेहग्रहः सैकते
पाषाणे जन्तोङ्कुरः स्वकुसुमैः सृष्टः शिरःशेखरः ।
बन्ध्याया विहिता सुतेन सखिता कूर्माङ्गनायाः पयः
पीतं येन निषेव्य मुग्धधनिनः सम्पादिताः सम्पदः ॥२२१७॥
पण्डितशशिनः ॥
अरण्यरुदितं कृतं शवशरीरम् उद्वर्तितं
स्थलेऽब्जम् अवरोपितं सुइच्रम् ऊषरे वर्षितम् ।
श्वपुच्छम् अवनामितं वधिरकर्णजापः कृतः
कृतान्धमुकुरक्रिया यद् अबुधो जनः सेवितः ॥२२१८॥
सिल्हणस्य ।
तोयं निर्मथितं घृताय मधुने निस्पीडितः प्रस्तरः
पानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता ।
दुग्धा सेयम् अचेतनेन जरती दुग्धाशया शूकरी
कष्टं यत् खलु दीर्घया धनतृषा नीचो जनः सेवितः ॥२२१९॥
अमरसिंहस्य । (सु।र। १५१५)
स्तब्धस् तिष्ठसि पश्यद् अन्धपुरतः किं दर्शनाकाङ्क्षया
जल्पन् मूकमुखादितः प्रतिवचः किं श्रोतुम् आकाङ्क्षसि ।
यः शृण्वद् वधिरः शृणोति स कथं विज्ञप्तिकां तावकीं
प्राणप्रेतम् उपासमाननपठन्मूर्खस् त्वदन्यो जनः ॥२२२०॥
वल्लणस्य ।