०४३ मनस्विसेवकः

सोढं द्वाःस्थितदुःस्थितदुर्वचः कटु ततो दृष्टो दुरीशश् चिराद्
उद्गीर्णाः स्वगुणाश् च याचितम् अथ श्रोत्रे कृता नेति गीः ।
अस्मिन् पातकपञ्चके सति महत्य् आब्रह्महत्यादिकं
यत् पापं महद् ऊचिरे मनुमुखाः कोऽन्व् एष तेषां भ्रमः ॥२२११॥

धर्मपालस्य ।

लज्जे लज्जे निमज्ज क्वचिद् अपि निभृतं तिष्ठ तिष्ठ प्रतिष्ठे
गच्छ द्रोणीं हिमाद्रेः पुनर् अपि तपसे भारति स्वस्ति तुभ्यम् ।
सोऽहं पुण्यक्षयेण प्रचुरपरिभवातङ्किनि प्रौढतापे
सेवापङ्के प्रतामि द्रविणकणधिया निष्कृपाणां नृपाणाम् ॥२२१२॥

कस्यचित् ।

अमीषां प्राणानां तुलिनविसिनीपत्रपयसां
कृते किं नास्माभिर् विगलितविवेकैर् व्यवसितम् ।
यदीशानाम् अग्रे द्रविणमदमोहान्धमनसां
कृतं वीतव्रीडैर् निजगुणकथापातकम् अपि ॥२२१३॥

धर्मकीर्तेः । (सु।र। १४६७, स्स् १।९)

कामं वनेषु हरिणास् तृणेन जीवन्त्य् अयत्नसुलभेन ।
विदधति धनिषु न दैन्यं ते किल पशवो वयं सुधियः ॥२२१४॥

सिल्हणस्य । (स्स् १।१५, शा।प। २६१, सू।मु। २६।१, सु।र। १४९४)

वयम् अनिपुणाः कर्णप्रान्ते निवेशयितुं मुखं
कृतकमधुरं भर्तुर् भावं न भावयितुं क्षमाः ।
प्रियम् अपि वचो मिथ्या वक्तुं जनैर् न च शिक्षिताः
क इह स गुणो येन स्याम क्षितीश्वरवल्लभाः ॥२२१५॥

भर्तृहरेः । (सु।र। १४७०)