०४० मनस्वी

मा खेदं भज हे विधुन्तुद मुदं धेहि स्तुहि त्वं हरेस्
तच् चक्रं विनिकृत्य दग्धम् उदरं येनोत्तमाङ्गीकृतः ।
पश्यास्मान् उदरम्भरीन् इह पराभूतान् निरस्तान् हतान्
विध्वस्तानववारितान् अधरितान् एतान् धनाहंयुभिः ॥२१९६॥

बटेश्वरस्य ।

यद् एते साधूनाम् उपरि मुखरा एव धनिनो
न सावज्ञैर् एषाम् अपि च निजवित्तव्ययभयम् ।
न वा क्लेशोऽमुष्मिन्न् अपरम् अनुकम्पैव भवति
स्वमांसस् त्रस्तेभ्यः क इह हरिणेभ्यः परिभवः ॥२१९७॥

भर्तृहरेः । (सु।र। १४६८, स्स् ३।२३)

शतं वा लक्षं वा नियुतम् अथवा कोटिम् अथवा
तृणायाहं मन्ये समयविपरीतं यदि भवेत् ।
शतं तल् लक्षं तन् नियुतम् अपि तत्कोटिर् अपि तद्
यद् आप्तं सम्मानाद् अपि तृणम् अनम्रण शिरसा ॥२१९८॥

तस्यैव ।

मा गाः प्रत्युपकारकातरतया वैवर्ण्यम् आकर्णय
श्रीकर्णाटवसुन्धराधिप सुधासिक्तानि सूक्तानि नः ।
वर्ण्यन्ते कति नाम नार्णवनदीभूगोलविन्ध्याटवी
झञ्झामारुतचन्द्रमःप्रभृतयस् तेभ्यः किम् आप्तं मया ॥२१९९॥

सिल्हनस्य ।

राजा त्वं वयम् अप्य् उपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानद नातिदूरम् उभयोर् अप्य् आवयोर् अन्तरं
यद्य् अस्मासु पराङ्मुखोऽसि वयम् अप्य् एकान्तितो निःस्पृहाः ॥२२००॥

वल्लणस्य । (सु।र। १२२२)