विमलमतिभिः कैर् अप्य् एतज् जगज्जनितं पुरा
विधृतम् अपरैर् दत्तं चान्यैर् विजित्य तृणं यथा ।
इह हि भुवनान्य् अन्ये धीराश् चतुर्दश भुञ्जते
कतिपयपुरस्वान्ते पुंसां क एष मदज्वरः ॥२१९१॥
भर्तृहरेः । (स्स् २।१४)
केनेन्दुः कुमुदेषु केन तरणिः पद्मेषु केनाम्बुदः
सारङ्गेष्व् अथ केन शाखिषु मधुर् दाक्षिण्यम् अध्यापितः ।
तत् तुङ्गाननुभूतसौरभपरीवारोपकारं प्रति
श्मश्रूद्वेजितकर्णजाहम् अनुजः कः प्रेरयत्व् ईश्वरान् ॥२१९२॥
शुङ्गोकस्य ।
भवन्ति नम्रास् तरवः फलागमैर्
नवाम्बुभिर् दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ॥२१९३॥
कालिदासस्य । (Çअक् ५।१२; न्स् ६३)
यदालोकं कुर्वन् भ्रमति रविर् अश्रान्ततुरगः
सदालोआन् धत्ते यदगणितबाधा वसुमती ।
न सम्बन्धः किं तु प्रकृतिर् इयम् एवं हि महतां
यद् एते लोकानां परहितसुखैकान्तरसिकाः ॥२१९४॥
मेघारुद्रस्य ।
धात्रीं धातुं वहति फणिनाम् अग्रणीः कस्य शिक्षां
को वा ब्रूते तिमिरपटलप्लोषम् अह्नः प्रणेतुः ।
अद्रिश्रेणीम् अवति जलधिः केन दत्ताभ्यनुज्ञः
कर्म प्रायो भवति महतां स्वानुरूपं महिम्नः ॥२१९५॥