भ्राम्यद्बालिशकीरपक्षहरितच्छायां बहिर् बिभ्रतीम्
अन्तर् दन्तुर् अपारिभद्रकलिकागर्भप्रभातस्करीम् ।
शुक्तिर् मारकतीव कुङ्कुमलसज्जम्बालपूर्णोदरा
वासालीसुकृतात्मनां प्रणयिनी चेलं मुखं चुम्बति ॥२१८६॥
सेन्दूकस्य ।
विषयपतिर् अलुब्धो धेनुभिर् धाम पूतं
कतिचिद् अभिमतायां सीम्नि सीरा वहन्ति ।
शिथिलयति च भार्या नातिथेयीं सपर्याम्
इति सुकृतम् अनेन व्यञ्जितं नः फलेन ॥२१८७॥
शुभाङ्कस्य ।
धारानिपातरवबोधितपञ्जरस्थ
दात्यूहडम्बरकरम्बितकण्ठकूजाः ।
अट्टेषु काण्डपटवारितशीकरेषु
धन्याः पिबन्ति मुखतामरसं वधूनाम् ॥२१८८॥
श्रीहनूमतः । (सु।र। २२४)
शिलापट्टोद्घृष्टा मलयजरसालेपसुभगाः
स्फुरद्धूमामोदा दरदलितकर्पूरसुहृदः ।
इतः कम्बुच्छेदच्छविभिर् अहिवल्लीकिसलयैर्
निषेवन्ते केऽपि क्रमुकफलफाणीः सुकृतिनः ॥२१८९॥
राजशेखरस्य ।
शिशुत्वं तारुण्यं तद् अनु च दधानाः परिणतिं
गताः पांशुक्रीडाविषयपरिपाटीरूपशतम् ।
लुठन्तोऽङ्के मातुः कुवलयदृशां पुण्यसरितां
पिबन्ति स्वच्छन्दं स्तनम् अधरम् अम्भः सुकृतिनः ॥२१९०॥
श्रीहनूमतः । (सु।र। १६२१)